Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

nāradapāñcarātrāntargatam

नारदपाञ्चरात्रान्तर्गतम्

Verse

पार्वत्युवाच कैलासवासिन्! भगवन् भक्तानुग्रहकारक! । राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥१॥

Verse

यद्यस्ति करुणा नाथ! त्राहि मां दुःखतो भयात् । त्वमेव शरणं नाथ! शूलपाणे! पिनाकधृक् ॥२॥

Verse

शिव उवाच शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् । सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥३॥

Verse

हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम् । त्रैलोक्याकर्षणं देवि हरिसान्निद्ध्यकारकम् ॥४॥

Verse

सर्वत्र जयदं देवि, सर्वशत्रुभयापहं । सर्वेषाञ्चैव भूतानां मनोवृत्तिहरं परम् ॥५॥

Verse

चतुर्धा मुक्तिजनकं सदानन्दकरं परम् । राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥६॥

Verse

इदं कवचमज्ञात्वा राधामन्त्रञ्च यो जपेत् । स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥७॥

Verse

ऋषिरस्य महादेवोऽनुष्टुप् च्छन्दश्च कीर्तितम् । राधास्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥८॥

Verse

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥९॥

Verse

श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी । हरिप्रिया नासिकाञ्च भ्रूयुगं शशिशोभना ॥१०॥

Verse

ऒष्ठं पातु कृपादेवी अधरं गोपिका तदा । वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥११॥

Verse

चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा कण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥१२॥

Verse

बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा । कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥१३॥

Verse

जङ्खे चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा । नखान् विधुमुखी देवी गोपी पादतलं तथा ॥१४॥

Verse

शुभप्रदा पातु पृष्ठं कक्षौ श्रीकान्तवल्लभा । जानुदेशं जया पातु हरिणी पातु सर्वतः ॥१५॥

Verse

वाक्यं वाणी सदा पातु धनागारं धनेश्वरी । पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥१६॥

Verse

उत्तरां हरिता पातु दक्षिणां वृषभानुजा । चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥१७॥

Verse

सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी । रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥१८॥

Verse

हेतुदा संगवे पातु केतुमालाऽभिवार्धके । शेषाऽपराह्नसमये शमिता सर्वसन्धिषु ॥१९॥

Verse

योगिनी भोगसमये रतौ रतिप्रदा सदा । कामेशी कौतुके नित्यं योगे रत्नावली मम ॥२०॥

Verse

सर्वदा सर्वकार्येषुराधिका कृष्णमानसा । इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥२१॥

Verse

सर्वरक्षाकरं नाम महारक्षाकरं परम् । प्रातर्मद्ध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥२२॥

Verse

सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते । राजद्वारे सभायां च संग्रामे शत्रुसङ्कटे ॥२३॥

Verse

प्राणार्थनाशसमये यः पठेत्प्रयतो नरः । तस्य सिद्धिर्भवेत् देवि न भयं विद्यते क्वचित् ॥२४॥

Verse

आराधिता राधिका च येन नित्यं न संशयः । गंगास्नानाद्धरेर्नामश्रवणाद्यत्फलं लभेत् ॥२५॥

Verse

तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः । हरिद्रारोचना चन्द्रमण्डलं हरिचन्दनम् ॥२६॥

Verse

कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे । कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥२७॥

Verse

कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः । संहारं चाहं नियतं करोमि कुरुते तथा ॥२८॥

Verse

वैष्णवाय विशुद्धाय विरागगुणशालिने दद्याकवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥२९॥

gaṇeśakavacam
śivakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms