Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrībaṭukabhairavāṣṭottaraśatanāmastotram

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

Verse

आपदुद्धारकबटुकभैरवस्तोत्रम् ॥

Verse

श्रीगणेशाय नमः ॥

Verse

॥ श्रीउमामहेश्वराभ्यां नमः ॥

Verse

॥ श्रीगुरवे नमः ॥

Verse

॥ श्रीभैरवाय नमः ॥

Verse

मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥१॥

Verse

श्रीपार्वत्युवाच - भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु । आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥२॥

Verse

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया । विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥३॥

Verse

अङ्गन्यासकरन्यासदेहन्याससमन्वितम् । वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥४॥

Verse

शङ्कर उवाच - शृणु देवि महामन्त्रमापदुद्धारहेतुकम् । सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥५॥

Verse

अपस्मारादि रोगानां ज्वरादीनां विशेषतः । नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥६॥

Verse

ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् । स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥७॥

Verse

सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् । आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥८॥

Verse

प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् । बटुकायेति वै पश्चादापदुद्धारणाय च ॥९॥

Verse

कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् । देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥१०॥

Verse

मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् ।

Verse

ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु-कुरु बटुकाय ह्रीं । अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥११॥

Verse

स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः । विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥१२॥

Verse

पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् । अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥१३॥

Verse

न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥१४॥

Verse

भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् । न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥१५॥

Verse

श्रीपार्वत्युवाच - य एष भैरवो नाम आपदुद्धारको मतः । त्वया च कथितो देव भैरवःकल्पवित्तमः ॥१६॥

Verse

तस्य नाम सहस्राणि अयुतान्यर्बुदानि च । सारं समुद्धृत्य तेषां वै नामाष्टशतकं वद ॥१७॥

Verse

यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः । सर्वान्कामानवाप्नोति साधकःसिद्धिमेव च ॥१८॥

Verse

ईश्वर उवाच - शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः । आपदुद्धारकस्येदं नामाष्टशतमुत्तमम् ॥१९॥

Verse

सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् । सर्वकामार्थदं देवि साधकानां सुखावहम् ॥२०॥

Verse

सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् । आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥२१॥

Verse

नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितः । बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥२२॥

Verse

लज्जाबीजं बीजमिति बटुकामेति शक्तिकम् । प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत् ॥२३॥

Verse

अष्टबाहुं त्रिनयनमिति बीजं समाहितः । शक्तिः ह्रीं कीलकं शेषमिष्टसिद्धौ नियोजयेत् ॥२४॥

Verse

ॐ अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य बृहदारण्यक ऋषिः ।

Verse

अनुष्टुप् छन्दः।

Verse

श्रीमदापदुद्धारक-बटुकभैरवो देवता ।

Verse

बं बीजम् ।

Verse

ह्रीं वटुकाय इति शक्तिः ।

Verse

प्रणवः कीलकम् । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

Verse

॥ ऋष्यादि न्यासः ॥

Verse

श्रीबृहदारण्यकऋषये नमः (शिरसि)।

Verse

अनुष्टप् छन्दसे नमः (मुखे)।

Verse

श्रीबटुकभैरव देवतायै नमः (हृदये)।

Verse

ॐ बं बीजाय नमः (गुह्ये)।

Verse

ॐ ह्रीं वटुकायेति शक्तये नमः पादयोः ।

Verse

ॐ कीलकाय नमः (नाभौ)।

Verse

विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥

Verse

॥ अथ करन्यासः ॥

Verse

ॐ ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः ।

Verse

ॐ ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः ।

Verse

ॐ ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः ।

Verse

ॐ ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः ।

Verse

ॐ ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः ।

Verse

ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः । ॥ इति करन्यासः ॥

Verse

॥ अथ हृदयादि न्यासः ॥

Verse

ॐ ह्रां वां ईशानाय नमः हृदयाय नमः ।

Verse

ॐ ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा ।

Verse

ॐ ह्रूं वूं अघोराय नमः शिखायै वषट् ।

Verse

ॐ ह्रैं वैं वामदेवाय नमः कवचाय हुम् ।

Verse

ॐ ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् ।

Verse

ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् । ॥ इति हृदयादि न्यासः ॥

Verse

अथ देहन्यासः ।

Verse

भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् । नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ॥२५॥

Verse

कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः । नासौष्ठयोश्चैव तथा भस्माङ्गं सर्पविभूषणम् ॥२६॥

Verse

अनादिभूतभाष्यौ च शक्तिहस्तखले न्यसेत् । स्कन्धयोर्दैत्यशमनं वाह्वोरतुलतेजसः ॥२७॥

Verse

पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् । शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥२८॥

Verse

उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा । क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ॥२९॥

Verse

पापौघनाशनं कट्यां बटुकं लिङ्गदेशके । गुदे रक्षाकरं न्यस्येत्तथोर्वोर्रक्तलोचनम् ॥३०॥

Verse

जानुनोर्घुर्घुरारावं जङ्घयो रक्तपाणिनम् । गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ॥३१॥

Verse

आपादमस्तकं चैव आपदुद्धारकं तथा । पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥३२॥

Verse

खड्गहस्ते पश्चिमायां घण्टावादिनमुत्तरे । आग्नेय्यामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥३३॥

Verse

वायव्यां सर्वभूतस्थमैशान्ये चाष्टसिद्धिदम् । ऊर्ध्वं खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ॥३४॥

Verse

एवं विन्यस्य स्वदेहस्य षडङ्गेषु ततो न्यसेत् । रुद्रं मुखोष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् ॥३५॥

Verse

शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् । ब्रह्माणं तु कनिष्ठिक्यां स्तनयोस्त्रिपुरान्तकम् ॥३६॥

Verse

मांसासिनं कराग्रे तु करपृष्ठे दिगम्बरम् ।

Verse

अथ नामाङ्गन्यासः । हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ॥३७॥

Verse

आनन्दपादपूर्वाय नाथाय च शिखासु च । सिद्धसामरनाथाय कवचं विन्यसेत्ततः ॥३८॥

Verse

सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च । परमानन्दनाथाय अस्त्रं चैव प्रयोजयेत् ॥३९॥

Verse

एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् । तस्य ध्यानं प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥४०॥

Verse

शुद्धस्फटिकसङ्काशं नीलाञ्जनसमप्रभम् । अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥४१॥

Verse

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥४२॥

Verse

दिगम्बरं कुमारीशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥४३॥

Verse

डमरुं च कपोलं च वरदं भुजगं तथा । अग्निवर्णं समोपेतं सारमेयसमन्वितम् ॥४४॥

Verse

ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥

Verse

मन्त्रमहार्णवे सात्त्विकध्यानम् - वन्दे बालं स्फटिकसदृशं कुण्डलोभासिताङ्गं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ॥

Verse

दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्याम्बटुकेशं शूलदण्डैर्दधानम् ॥१॥

Verse

मन्त्रमहार्णवे राजसध्यानम् - उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ॥

Verse

नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥२॥

Verse

मन्त्रमहार्णवे तामसध्यानम् - ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गपाशाभयानि ॥

Verse

नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं, दिव्याकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥३॥

Verse

॥इति ध्यानत्रयम् ॥

Verse

सात्त्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् । राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥१॥

Verse

ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् । आयुरारोग्यमैश्वर्यं सिद्ध्यर्थं विनियोजयेत् ॥२॥

Verse

विनियोगः ॐ अस्य श्रीबटुकभैरवनामाष्टशतकस्य आपदुद्धारणस्तोमन्त्रस्य, बृहदारण्यको नाम ऋषिः, श्रीबटुकभैरवो देवता, अनुष्टुप् छन्दः, ह्रीं बीजम्, बटुकायेति शक्तिः, प्रणवः कीलकं, अभीष्टतां सिद्ध्यिर्थे जपे विनियोगः ॥ह्रीं ह्रौं नमः शिवाय इति नमस्कार मन्त्रः ॥

Verse

॥ अथ ध्यानम् ॥

Verse

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः । दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥

Verse

करकलितकपालः कुण्डली दण्डपाणिः तरुणतिमिरनीलो व्यालयज्ञोपवीती । क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

Verse

शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥

Verse

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥

Verse

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥

Verse

दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥

Verse

डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥

Verse

॥ इति ध्यानम् ॥

Verse

॥ मूलमन्त्रः ॥

Verse

ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ इसका जप ११ २१ ५१ या १०८ बार करे ॥

Verse

अथ स्तोत्रम् ॥

Verse

ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥१॥

Verse

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥२॥

Verse

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥३॥

Verse

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥४॥

Verse

धनदोऽधनहारि च धनवान्प्रीतिवर्धनः । प्रतिभानवान् नागहारो नागकेशो व्योमकेशो कपालभृत् ॥५॥

Verse

नागपाशो कालः कपालमालि च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥६॥

Verse

त्रिलोकपः त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः । बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥७॥

Verse

भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥८॥

Verse

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥९॥

Verse

अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः । भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥१०॥

Verse

कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् ।

Verse

variation कपालधारि मुण्डी च नागयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥११॥

Verse

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥१२॥

Verse

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥१३॥

Verse

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओम् ॥१४॥

Verse

फलश्रुतिः ।

Verse

अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥१५॥

Verse

य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥१६॥

Verse

न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥१७॥

Verse

पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥१८॥

Verse

औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने । बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥१९॥

Verse

सर्वं प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रं तु पुरश्चरणमुच्यते ॥२०॥

Verse

यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥२१॥

Verse

षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् । राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥२२॥

Verse

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥२३॥

Verse

धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन् (जपेन्) मासत्रयं देवि वारमेकं तथा निशि ॥२४॥

Verse

धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः । रोगी भयात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥२५॥

Verse

भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः । निगडिश्चापि बद्धो यः कारागेहे निपातितः ॥२६॥

Verse

शृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशि ।

Verse

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥२७॥

Verse

सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते । दद्यात्स्तोत्रमिमं पुण्यं सर्वकामफलप्रदम् ॥२८॥

Verse

जजाप परमं प्राप्यं भैरवस्य महात्मनः । भैरवस्य प्रसन्नाभूत्सर्वलोकमहेश्वरी ॥२९॥

Verse

भैरवस्तु प्रहृष्टोऽभूत्सर्वगः परमेश्वरः । जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम् ॥३०॥

Verse

॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrībagalāṣṭottaraśatanāmastotram
śrībaṭukabhairavāṣṭottaraśatanāmastotram

Read next

More on श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

  • श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms