aSTottaranAma
śrībagalāṣṭottaraśatanāmastotram
श्रीबगलाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीदेव्युवाच ।
Verse
वगला शतनामानि कथ्यन्तां मे कृपानिधे । यन्नोक्तं अन्यतन्त्रेषु, अधुना कथय प्रभो ॥१॥
Verse
श्रीईश्वर उवाच ।
Verse
अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता धर्मार्थकाममोक्षार्थसिद्धये विनियोगः ।
Verse
ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः । वाग्वादिनी वयोरूपा बलाबलवती तथा ॥२॥
Verse
विषमा विकटा वेधा विशाला विमना विधिः । विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥३॥
Verse
वेणी च विकटा वेश्या नानावेषपरिच्छदा । वयोरूपा च वृद्धा विकला वसुमतीति च ॥४॥
Verse
वगला वामनी देवी विष्णुपूज्या विनोदिनी । वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥५॥
Verse
वलावलवती वाला विधेश्च परिपूजिता । विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥६॥
Verse
वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा । वल्लभा वलरूपा च अशेष वलधारिणी ॥७॥
Verse
वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला । वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥८॥
Verse
विरूपाक्षी वला वाली कृष्णविमलरूपिणी । वाराही च वलाका च वलिनी वर्णरूपिणी ॥९॥
Verse
गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा । गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥१०॥
Verse
गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी । गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥११॥
Verse
गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी । गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥१२॥
Verse
गहना गुह्यरूपा च तथैव गन्धरूपिणी । गणार्हा गानदागानरूपिणी गण मोहिनी ॥१३॥
Verse
नीलमाला मनोन्मत्ता ललजिह्वा ललाटिनी । आनन्दरूपिणी आद्या आचार्य स्वांशुरूपिणी ॥१४॥
Verse
मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी । खेलत् खञ्जगामी च खेला खलखला तथा ॥१५॥
Verse
ईश्वरी ईश्वराराध्या अकार ॐ स्वरूपिणी । वर्णा च वगलामुख्याः शतनाम इतीरितम् ॥१६॥
Verse
अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् । सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥१७॥
Verse
त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते । नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥१८॥
Verse
इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्याः शतनामस्तोत्रं समाप्तम् ।
