aSTottaranAma
śrībagalāṣṭottaraśatanāmastotram
श्रीबगलाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीगणेशाय नमः ।
Verse
नारद उवाच ।
Verse
भगवन्देवदेवेश सृष्टिस्थितिलयात्मक । शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥१॥
Verse
श्रीभगवानुवाच ।
Verse
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् । पीताम्बर्यां महादेव्याः स्तोत्रं पापप्रणाशनम् ॥२॥
Verse
यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात् । रिपुणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥३॥
Verse
ॐ अस्य श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीपीताम्बरा देवता, श्रीपीताम्बराप्रीतये पाठे विनियोगः ।
Verse
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी । बहुला वेदमाता च महाविष्णुप्रसूरपि ॥४॥
Verse
महामत्स्या महाकूर्म्मा महावाराहरूपिणी । नारसिंहप्रिया रम्या वामना बटुरूपिणी ॥५॥
Verse
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता । कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी ॥६॥
Verse
बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी । कल्किरूपा कलिहरा कलिदुर्गति नाशिनी ॥७॥
Verse
कोटिसूर्य्यप्रतीकाशा कोटिकन्दर्पमोहिनी । केवला कठिना काली कला कैवल्यदायिनी ॥८॥
Verse
केशवी केशवाराध्या किशोरी केशवस्तुता । रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥९॥
Verse
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता । नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥१०॥
Verse
नागिनी नागजननी नागराजप्रवन्दिता । नागेश्वरी नागकन्या नागरी च नगात्मजा ॥११॥
Verse
नगाधिराजतनया नगराजप्रपूजिता । नवीना नीरदा पीता श्यामा सौन्दर्य्यकारिणी ॥१२॥
Verse
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी । सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥१३॥
Verse
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी । भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥१४॥
Verse
रागद्वेषकरी रात्री रौरवध्वंसकारिणी । यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥१५॥
Verse
लङ्कापतिध्वंसकरी लङ्केशी रिपुवन्दिता । लङ्कानाथकुलहरा महारावणहारिणी ॥१६॥
Verse
देवदानवसिद्धौघपूजिता परमेश्वरी । पराणुरूपा परमा परतन्त्रविनाशिनी ॥१७॥
Verse
वरदा वरदाराध्या वरदानपरायणा । वरदेशप्रिया वीरा वीरभूषणभूषिता ॥१८॥
Verse
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना । बलदा पीतवसना पीतभूषणभूषिता ॥१९॥
Verse
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी । इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥२०॥
Verse
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः । तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥२१॥
Verse
प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् । द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः ॥२२॥
Verse
॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
