Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrībaṭukabhairavāṣṭottaraśatanāmastotram

श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीगणेशाय नमः ।

Verse

श्रीउमामहेश्वराभ्यां नमः ।

Verse

श्रीगुरवे नमः ।

Verse

श्रीभैरवाय नमः ।

Verse

ॐ अस्य श्रीबटुकभैरवस्तोत्रमन्त्रस्य कालाग्निरुद्र ऋषिः ।

Verse

अनुष्टुप् छन्दः ।

Verse

आपदुद्धारकबटुकभैरवो देवता ।

Verse

ह्रीं बीजम् ।

Verse

भैरवीवल्लभः शक्तिः ।

Verse

नीलवर्णो दण्डपाणिरिति कीलकम् । समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने च विनियोगः ॥

Verse

ऋष्यादि न्यासः - ॐ कालाग्निरुद्र ऋषये नमः शिरसि ।

Verse

अनुष्टुप्छन्दसे नमः मुखे ।

Verse

आपदुद्धारकश्रीबटुकभैरव देवतायै नमः हृदये ।

Verse

ह्रीं बीजाय नमः गुह्ये ।

Verse

भैरवीवल्लभ शक्तये नमः पादयोः ।

Verse

नीलवर्णो दण्डपाणिरिति कीलकाय नमः नाभौ ।

Verse

समस्तशत्रुदमने समस्तापन्निवारणे सर्वाभीष्टप्रदाने विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥

Verse

अथ मूलमन्त्रः - ॥

Verse

ॐ ह्रीं वां बटुकाय क्ष्रौं क्षौ आपदुद्धारणाय कुरु कुरु बटुकाय ह्रां बटुकाय स्वाहा ॥

Verse

॥ इति मूलमन्त्रः ॥

Verse

अथ ध्यानम् - नीलजीमूतसङ्काशो जटिलो रक्तलोचनः । दंष्ट्राकरालवदनः सर्पयज्ञोपवीतवान् ॥

Verse

दंष्ट्रायुधालंकृतश्च कपालस्रग्विभूषितः । हस्तन्यस्तकरोटीको भस्मभूषितविग्रहः ॥

Verse

नागराजकटीसूत्रो बालमूर्ति दिगम्बरः । मञ्जु सिञ्जानमञ्जरी पादकम्पितभूतलः ॥

Verse

भूतप्रेतपिशाचैश्च सर्वतः परिवारितः । योगिनीचक्रमध्यस्थो मातृमण्डलवेष्टितः ॥

Verse

अट्टहासस्फुरद्वक्त्रो भ्रुकुटीभीषणाननः । भक्तसंरक्षणार्थाय दिक्षुभ्रमणतत्परः ॥

Verse

॥ इति ध्यानम् ॥

Verse

अथ स्तोत्रम् ।

Verse

ॐ ह्रीं बटुको वरदः शूरो भैरवः कालभैरवः । भैरवीवल्लभो भव्यो दण्डपाणिर्दयानिधिः ॥१॥

Verse

वेतालवाहनो रौद्रो रुद्रभ्रुकुटिसम्भवः । कपाललोचनः कान्तः कामिनीवशकृद्वशी ॥२॥

Verse

आपदुद्धारणो धीरो हरिणाङ्कशिरोमणिः । दंष्ट्राकरालो दष्टोष्ठौ धृष्टो दुष्टनिबर्हणः ॥३॥

Verse

सर्पहारः सर्पशिराः सर्पकुण्डलमण्डितः । कपाली करुणापूर्णः कपालैकशिरोमणिः ॥४॥

Verse

श्मशानवासी मांसाशी मधुमत्तोऽट्टहासवान् । वाग्मी वामव्रतो वामो वामदेवप्रियङ्करः ॥५॥

Verse

वनेचरो रात्रिचरो वसुदो वायुवेगवान् । योगी योगव्रतधरो योगिनीवल्लभो युवा ॥६॥

Verse

वीरभद्रो विश्वनाथो विजेता वीरवन्दितः । भूताध्यक्षो भूतिधरो भूतभीतिनिवारणः ॥७॥

Verse

कलङ्कहीनः कङ्काली क्रूरकुक्कुरवाहनः । गाढो गहनगम्भीरो गणनाथसहोदरः ॥८॥

Verse

देवीपुत्रो दिव्यमूर्तिर्दीप्तिमान् दीप्तिलोचनः । महासेनप्रियकरो मान्यो माधवमातुलः ॥९॥

Verse

भद्रकालीपतिर्भद्रो भद्रदो भद्रवाहनः । पशूपहाररसिकः पाशी पशुपतिः पतिः ॥१०॥

Verse

चण्डः प्रचण्डचण्डेशश्चण्डीहृदयनन्दनः । दक्षो दक्षाध्वरहरो दिग्वासा दीर्घलोचनः ॥११॥

Verse

निरातङ्को निर्विकल्पः कल्पः कल्पान्तभैरवः । मदताण्डवकृन्मत्तो महादेवप्रियो महान् ॥१२॥

Verse

खट्वाङ्गपाणिः खातीतः खरशूलः खरान्तकृत् । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥१३॥

Verse

दिग्चरो भूचरो भूष्णुः खेचरः खेलनप्रियः ।

Verse

सर्वदुष्टप्रहर्ता च सर्वरोगनिषूदनः । सर्वकामप्रदः शर्वः सर्वपापनिकृन्तनः ॥१४॥

Verse

इत्थमष्टोत्तरशतं नाम्नां सर्वसमृद्धिदम् । आपदुद्धारजनकं बटुकस्य प्रकीर्तितम् ॥१५॥

Verse

एतच्च शृणुयान्नित्यं लिखेद्वा स्थापयेद्गृहे । धारयेद्वा गले बाहौ तस्य सर्वा समृद्धयः ॥१६॥

Verse

न तस्य दुरितं किञ्चिन्न चोरनृपजं भयम् । न चापस्मृतिरोगेभ्यो डाकिनीभ्यो भयं न हि ॥१७॥

Verse

न कूष्माण्डग्रहादिभ्यो नापमृत्योर्न च ज्वरात् । मासमेकं त्रिसन्ध्यं तु शुचिर्भूत्वा पठेन्नरः ॥१८॥

Verse

सर्वदारिद्र्यनिर्मुक्तो निधिं पश्यति भूतले । मासद्वयमधीयानः पादुकासिद्धिमान् भवेत् ॥१९॥

Verse

अञ्जनं गुटिका खड्गं धातुवादरसायनम् । सारस्वतं च वेतालवाहनं बिलसाधनम् ॥२०॥

Verse

कार्यसिद्धिं महासिद्धिं मन्त्रं चैव समीहितम् । वर्षमात्रमधीयानः प्राप्नुयात्साधकोत्तमः ॥२१॥

Verse

एतत्ते कथितं देवि गुह्याद्गुह्यतरं परम् । कलिकल्मषनाशनं वशीकरणं चाम्बिके ॥२२॥

Verse

॥ इति कालसङ्कर्षणतन्त्रोक्त श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrībaṭukabhairavāṣṭottaraśatanāmastotram
baṭukabhairavāṣṭottaraśatanāmastotraṃ

Read next

More on श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

  • श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms