aSTottaranAma
śrīcandrāṣṭottaraśatanāmastotram
श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्
Verse
अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् । अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥१॥
Verse
चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् । विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥२॥
Verse
द्विजराजः शशधरः शशी शिवशिरोगृहः । क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥३॥
Verse
रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः । चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥४॥
Verse
षोडशात्मा कलानाथो मदनः कामवल्लभः । हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥५॥
Verse
मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः । वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥६॥
Verse
ऊर्द्ध्ववासी निशानाथः शृङ्गारभावकर्षणः । मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥७॥
Verse
ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः । मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥८॥
Verse
रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः । निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥९॥
Verse
सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः । शरण्यः पार्वतीभालभूषणं भगवानपि ॥१०॥
Verse
पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः । हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः ॥११॥
Verse
शरत्कालपरिप्रीतः शारदः कुमुदप्रियः । द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥१२॥
Verse
इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः । सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥१३॥
Verse
स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः । जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥१४॥
Verse
सूर्याभावदुःखहर्ता वनस्पतिगतः कृती । यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥१५॥
Verse
रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज । नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥१६॥
Verse
चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् । पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥१७॥
Verse
स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च । सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥१८॥
Verse
श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् । तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥१९॥
Verse
दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् । ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः शृणुयुस्तथा ॥२०॥
Verse
इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
