aSTottaranAma
śrīcandrāṣṭottaraśatanāmastotram
श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्
Verse
चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥
Verse
श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥१॥
Verse
जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः । विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥२॥
Verse
दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः । अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥३॥
Verse
स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः । कळाधरः कालहेतुः कामकृत्कामदायकः ॥४॥
Verse
मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः । क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥५॥
Verse
जैवातृकः शुची शुभ्रो जयी जयफलप्रदः । सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥६॥
Verse
भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः । सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥७॥
Verse
भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः । जगत्प्रकाशकिरणो जगदानन्दकारणः ॥८॥
Verse
निस्सपत्नो निराहारो निर्विकारो निरामयः । भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥९॥
Verse
सकलार्तिहरः सौम्यजनकः साधुवन्दितः । सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥१०॥
Verse
सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः । var षीतांगो षीतभूषणः var पीतांगो पीतभूषणः श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥११॥
Verse
दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः । कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥१२॥
Verse
आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः । करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥१३॥
Verse
चतुरश्रासनारूढश्चतुरो दिव्यवाहनः । विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥१४॥
Verse
महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः । ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥१५॥
Verse
द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः । औदुम्बरनगावास उदारो रोहिणीपतिः ॥१६॥
Verse
नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः । सकलाह्लादनकरो फलाशसमिधप्रियः ॥१७॥
Verse
एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।
