aSTottaranAma
śrīgurvāṣṭottaraśatanāmastotram
श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम्
Verse
गुरु बीज मन्त्र - ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ॥
Verse
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः । गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥१॥
Verse
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः । आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥२॥
Verse
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः । चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥३॥
Verse
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः । सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥४॥
Verse
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः । धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥५॥
Verse
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः । दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥६॥
Verse
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः । आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥७ ॥
Verse
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः । हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥८॥
Verse
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः । काशपुष्पसमानाभः कलिदोषनिवारकः ॥९॥
Verse
इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः । असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥१०॥
Verse
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः । धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥११॥
Verse
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः । सर्वपापप्रशमनः स्वमतानुगतामरः ॥१२॥
Verse
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः । सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥१३॥
Verse
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः । ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥१४॥
Verse
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः । ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥१५॥
Verse
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः । नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥१६॥
Verse
सदानन्द नमस्तेऽस्तु नमः पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥१७॥
Verse
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः । नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥१८॥
Verse
नमो भार्गवषिष्याय विपन्नहितकारिणे । नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥१९॥
Verse
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥२०॥
Verse
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः । अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥२१॥
Verse
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः । भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥२२॥
Verse
बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः । अभीष्टफलदः श्रीमान् सुभद्गर नमोऽस्तु ते ॥२३॥
Verse
बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः । आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥२४॥
Verse
कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः । विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥२५॥
Verse
॥ इति गुर्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
