Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīgokuleśāṣṭottaraśatanāmastotram

श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम्

Verse

यन्नामाब्जं सदापूर्णं कृपाज्योत्स्नासमन्वितम् । पुष्टिभक्तिसुधावृष्टिकारकं च सुखाल्पदम् ॥१॥

Verse

अथ नामशतं साष्टं वल्लभस्य वदाम्यहम् । देवता वल्लभो नाम्नां छन्दोऽनुष्टुप् सुखाकरम् ॥२॥

Verse

फलं तु तत्पदाम्भोजे व्यसनं सर्वदा भवेत् । ऋषिस्तु विष्णुदासोऽत्र दासाय वरणं मतम् ॥३॥

Verse

वल्लभो गोकुलेशश्च विठ्ठलेशप्रियात्मजः । ताततुल्यस्वभावस्थो व्रजमङ्गलभूषणः ॥४॥

Verse

धराधरस्नेहदान्तो बहुनिर्दोषविग्रहः । भजनानन्दपीयूषपूर्णो मञ्जुदृगञ्चलः ॥५॥

Verse

दासवृन्दचकोरेन्दुः करुणादृष्टिवृष्टिकृत् । षट्कर्मवाञ्जनाधारः प्रतीतः पुरुषोत्तमः ॥६॥

Verse

दासलीलाविष्टचित्तो गोपीवल्लभवल्लभः । गृहस्थधर्मकर्ता च मर्यादामार्गरक्षकः ॥७॥

Verse

पुष्टिमार्गस्थितो नित्यं कृष्णप्रेमरसात्मकः । द्विजदारिद्र्यदुःखघ्नो वाञ्छाकल्पतरुर्महान् ॥८॥

Verse

अनन्यभक्तभावज्ञो मोहनादिसुखप्रदः । वल्लभेष्टप्रदो नित्यं गोकुलप्रीतिवर्धनः ॥९॥

Verse

दासजीवनरूपश्च कन्दर्पादपि सुन्दरः । पादपद्मरसस्पर्शसर्वारिष्टनिवारकः ॥१०॥

Verse

मालीरक्षणकर्ता च शुद्धसत्कीर्तिवर्धनः । दुष्टानान्दोषहन्ता यो भक्तनिर्भयकारकः ॥११॥

Verse

इन्द्रादिभिर्नतो दक्षो लावण्यामृतवारिधिः । रसिको द्विजराजाख्यो द्विजवंशविभूषणः ॥१२॥

Verse

असाधारणसद्धर्मा साधारः सुजनाश्रितः । क्षमावान् क्रोधमात्सर्यतिरस्कारादिवर्जितः ॥१३॥

Verse

गोपीकान्तो मनोहारी दामोदरगुणोत्सवः । विहारी भक्तप्राणेशो राजीवदललोचनः ॥१४॥

Verse

मुकुन्दानुग्रहोत्साही भक्तिमार्गरसात्मकः । भक्तभाग्यफलं धीरो बन्धुसज्जनवेष्टितः ॥१५॥

Verse

वचनामृतमाधुर्यतृप्तसेवकसंस्तुतः । नित्योत्सवो नित्यश्रेयो नित्यदानपरायणः ॥१६॥

Verse

भवबन्धनदुःखघ्नो महदाधिविनाशकः । रसभावनिगूढात्मा स्वीयेषु ज्ञापिताशयः ॥१७॥

Verse

नयनानन्दकर्ता च विश्वमोहनरूपधृक् । श्रुतिस्मृतिपुराणादि-शास्त्रातत्त्वार्थपारगः ॥१८॥

Verse

धनाढ्यो धनदो धर्मरक्षाकर्ता शुभप्रदः । सर्वेश्वरः सदापूर्णज्ञानवान् विबुधप्रियः ॥१९॥

Verse

ब्रह्मवादे सविश्वासो मायावादादिखण्डनः । उग्रप्रतापवान् ध्येयो भृत्यदुःखनिवारकः ॥२०॥

Verse

सतामात्माऽजातशत्रुर्जीवमात्रशुभस्पृहः । दीनबन्धुर्विधुः श्रीमान् दयालुर्भक्तवत्सलः ॥२१॥

Verse

अनवद्यसुसङ्कल्पो जगदुद्धारणक्षमः । अनन्तशक्तिमान् शुद्धगम्भीरमृदुलाशयः ॥२२॥

Verse

प्रणाममात्रसन्तुष्टः सर्वाधिकसुखप्रदः । शृङ्गारादिरसोत्कर्षचातुर्यवलितस्मितः ॥२३॥

Verse

पादाम्बुजरजःस्पर्शमहापतितपावनः । पितृपालितसद्धर्मरक्षणोत्सुकमानसः ॥२४॥

Verse

भक्तिसिद्धान्तमर्मज्ञो गूढभावप्रकाशकः । पुष्टिप्रवाहमर्यादामार्गनिर्धारकारकः ॥२५॥

Verse

श्रीभागवतसारज्ञो सर्वाधिकतत्त्वबोधकः । अनन्यभावसन्तुष्टः पराश्रयनिवारकः ॥२६॥

Verse

आचार्यार्ध्यस्वरूपश्च सदाद्भुतचरित्रवान् । तैलङ्गतिलको दैवीसृष्टिसाफल्यकारकः ॥२७॥

Verse

इति श्रीगोकुलेशानां नामाब्जाभिधमुत्तमम् । स्तोत्रं सद्ब्रह्मभट्टेन विष्णुदासेन वर्णितम् ॥२८॥

Verse

यः पठेच्छृणुयाद्भक्त्या प्रभुस्तस्य प्रियो भवेत् । संशयोऽत्र न कर्तव्यः समर्थो गोकुलेश्वरः ॥२९॥

Verse

तत्कारुण्यबलेनैव मयैतत्प्रकटीकृतम् । पठन्तु साधवोऽप्येतत्तद्वद्देवानुकम्पया ॥३०॥

Verse

मदीयेयं तु विज्ञप्तिर्बुद्धिदोषप्रमत्तताम् । शोधयित्वा यथायुक्तं तथा कुर्वन्तु साधवः ॥३१॥

Verse

इति श्रीविष्णुदासविरचितमष्टोत्तरशतनाम्नां स्तोत्रं सम्पूर्णम् ।

śrīgurvāṣṭottaraśatanāmastotram
śrīgodāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms