Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīguruvāyupureśvarāṣṭottaraśatanāmastotraratnam

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्

Verse

श्रीविद्याराजगोपालाभिधश्रीमहावैकुण्ठेश्वरस्वरूप श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम् ॥

Verse

पार्वत्युवाच - देवदेव महादेव महावैष्णवतल्लज । जीववातपुरेशस्य माहात्म्यमखिलं त्वया ॥१॥

Verse

मन्त्रतन्त्ररहस्याढ्यैः सहस्राधिकनामभिः । अद्य मे प्रेमभारेणोपन्यस्तमिदमद्भुतम् ॥२॥

Verse

महावैकुण्ठनाथस्य प्रभावमखिलं प्रभो । सङ्ग्रहेण श्रोतुमद्य त्वरायुक्तास्म्यहं प्रभो ॥३॥

Verse

यस्य श्रवणमात्रेण जीववृन्देषु सर्वतः । नातिकृच्छ्रेण यत्नेन लसेयुः सर्वसिद्धयः ॥४॥

Verse

तादृशं सुलभं स्तोत्रं श्रोतुमिच्छामि त्वन्मुखात् । ईश्वर उवाच - महादेवि शिवे भद्रे जीववातपुरेशितुः ॥५॥

Verse

माहात्म्यवारिधौ मग्नः पूरयामि त्वदीप्सितम् । पूर्वं यन्नामसाहस्रं तस्य देवस्य भाषितम् ॥६॥

Verse

तस्यादौ विजृम्भमाणैरष्टाधिकशतेन तु । नामभिर्निर्मितं स्तोत्रं सर्वसिद्धिविधायकम् ॥७॥

Verse

पठितुं नामसाहस्रं अशक्ताः सन्ति ये शिवे । तेषामर्थे स्तोत्रमेतत्सङ्गृहीतं फलप्रदम् ॥८॥

Verse

अनुकूलौ देशकालौ यस्य स्तो जगतीह तु । पठितव्यं तेन नामसाहस्रं यत्नतः शिवे ॥९॥

Verse

आलस्यदूषिते चित्ते विश्वासरहिते तथा । गुरुवातपुरेशस्य न हि मूर्तिः प्रसीदति ॥१०॥

Verse

गुरोरन्यत्र विश्वासी तथा वातपुरेशितुः । कथमेतत्फलं प्रोक्तं यथावदधिगच्छति ॥११॥

Verse

एक एव गुरुर्यस्य वैकुण्ठो यस्य दैवतम् । तस्य भक्तस्य नूनं हि स्तोत्रमेतत्फलिष्यति ॥१२॥

Verse

अद्य ते देवि वक्ष्यामि नाम्नामष्टोत्तरं शतम् । स्तोत्रराजमिमं पुण्यं सावधानमनाः शृणु ॥१३॥

Verse

स्तोत्रस्यास्य ऋषिः प्रोक्तो दक्षिणामूर्तिरीश्वरः । छन्दोऽनुष्टुप् तथा देवो गुरुवायुपुरेश्वरः ॥१४॥

Verse

रमाशक्तिस्मरैर्बीजैः बीजशक्ती च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥१५॥

Verse

मूलमन्त्रस्य षड्भागैः कराङ्गन्यासमाचरेत् । महावैकुण्ठरूपेण ध्यातव्यात्र हि देवता ॥१६॥

Verse

इन्द्रनीलसमच्छायं पीताम्बरधरं हरिम् । शङ्खचक्रगदापद्मैर्लसद्बाहुं विचिन्तयेत् ॥१७॥

Verse

ध्यानम् - क्षीराम्भोधिस्थकल्पद्रुमवनविलसद्रत्नयुङ्मण्टपान्तः शङ्खं चक्रं प्रसूनं कुसुमशरचयं चेक्षुकोदण्डपाशौ । हस्ताग्रैर्धारयन्तं सृणिमपि च गदां भूरमाऽऽलिङ्गितं तं ध्यायेत्सिन्दूरकान्तिं विधिमुखविबुधैरीड्यमानं मुकुन्दम् ॥

Verse

अथ अष्टोत्तरशतनामस्तोत्रम् ।

Verse

महावैकुण्ठनाथाख्यो महानारायणाभिधः । तारश्रीशक्तिकन्दर्पचतुर्बीजकशोभितः ॥१९॥

Verse

गोपालसुन्दरीरूपः श्रीविद्यामन्त्रविग्रहः । रमाबीजसमारम्भो हृल्लेखासमलङ्कृतः ॥२०॥

Verse

मारबीजसमायुक्तो वाणीबीजसमन्वितः । पराबीजसमाराध्यो मीनकेतनबीजकः ॥२१॥

Verse

तारशक्तिरमायुक्तः कृष्णायपदपूजितः । कादिविद्याद्यकूटाढ्यो गोविन्दायपदप्रियः ॥२२॥

Verse

कामराजाख्यकूटेशो गोपीजनसुभाषितः । वल्लभायपदप्रीतः शक्तिकूटविजृम्भितः ॥२३॥

Verse

वह्निजायासमायुक्तः परावाङ्मदनप्रियः । मायारमासुसम्पूर्णो मन्त्रराजकलेवरः ॥२४॥

Verse

द्वादशावृतिचक्रेशो यन्त्रराजशरीरकः । पिण्डगोपालबीजाढ्यः सर्वमोहनचक्रगः ॥२५॥

Verse

षडक्षरीमन्त्ररूपो मन्त्रात्मरसकोणगः । पञ्चाङ्गकमनुप्रीतः सन्धिचक्रसमर्चितः ॥२६॥

Verse

अष्टाक्षरीमन्त्ररूपो महिष्यष्टकसेवितः । षोडशाक्षरमन्त्रात्मा कलानिधिकलार्चितः ॥२७॥

Verse

अष्टादशाक्षरीरूपोऽष्टादशदलपूजितः । चतुर्विंशतिवर्णात्मगायत्रीमनुसेवितः ॥२८॥

Verse

चतुर्विंशतिनामात्मशक्तिवृन्दनिषेवितः । क्लीङ्कारबीजमध्यस्थः कामवीथीप्रपूजितः ॥२९॥

Verse

द्वात्रिंशदक्षरारूढो द्वात्रिंशद्भक्तसेवितः । पिण्डगोपालमध्यस्थः पिण्डगोपालवीथिगः ॥३०॥

Verse

वर्णमालास्वरूपाढ्यो मातृकावीथिमध्यगः । पाशाङ्कुशद्विबीजस्थः शक्तिपाशस्वरूपकः ॥३१॥

Verse

पाशाङ्कुशीयचक्रेशो देवेन्द्रादिप्रपूजितः । लिखितो भूर्जपत्रादौ क्रमाराधितवैभवः ॥३२॥

Verse

ऊर्ध्वरेखासमायुक्तो निम्नरेखाप्रतिष्ठितः ।

Verse

सम्पूर्णमेरुरूपेण सम्पूजितोऽखिलप्रदः ॥३३ मन्त्रात्मवर्णमालाभिः सम्यक्शोभितचक्रराट् । श्रीचक्रबिन्दुमध्यस्थयन्त्रसंराट्स्वरूपकः ॥३४॥

Verse

कामधर्मार्थर्फलदः शत्रुदस्युनिवारकः । कीर्तिकान्तिधनारोग्यरक्षाश्रीविजयप्रदः ॥३५॥

Verse

पुत्रपौत्रप्रदः सर्वभूतवेतालनाशनः कासापस्मारकुष्ठादिसर्वरोगविनाशकः ॥३६॥

Verse

त्वगादिधातुसम्बद्धसर्वामयचिकित्सकः । डाकिन्यादिस्वरूपेण सप्तधातुषु निष्ठितः ॥३७॥

Verse

स्मृतिमात्रेणाष्टलक्ष्मीविश्राणनविशारदः । श्रुतिमौलिसमाराध्यमहापादुकलेवरः ॥३८॥

Verse

महापदावनीमध्यरमादिषोडशीद्विकः । रमादिषोडशीयुक्तराजगोपद्वयान्वितः ॥३९॥

Verse

श्रीराजगोपमध्यस्थमहानारायणद्विकः । नारायणद्वयालीढमहानृसिंहरूपकः ॥४०॥

Verse

लघुरूपमहापादुः महामहासुपादुकः । महापदावनीध्यानसर्वसिद्धिविलासकः ॥४१॥

Verse

महापदावनीन्यासशताधिककलाष्टकः । परमानन्दलहरीसमारब्धकलान्वितः ॥४२॥

Verse

शताधिककलान्तोद्यच्छ्रीमच्चरणवैभवः । शिर-आदिब्रह्मरन्ध्रस्थानन्यस्तकलावलिः ॥४३॥

Verse

इन्द्रनीलसमच्छायः सूर्यस्पर्धिकिरीटकः । अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितः ॥४४॥

Verse

कस्तूरीतिलकोद्भासी कारुण्याकुलनेत्रकः । मन्दहासमनोहारी नवचम्पकनासिकः ॥४५॥

Verse

मकरकुण्डलद्वन्द्वसंशोभितकपोलकः । श्रीवत्साङ्कितवक्षःश्रीः वनमालाविराजितः ॥४६॥

Verse

दक्षिणोरः प्रदेशस्थपराहङ्कृतिराजितः । आकाशवत्क्रशिष्ठश्रीमध्यवल्लीविराजितः ॥४७॥

Verse

शङ्खचक्रगदापद्मसंराजितचतुर्भुजः । केयूराङ्गदभूषाढ्यः कङ्कणालिमनोहरः ॥४८॥

Verse

नवरत्नप्रभापुञ्जच्छुरिताङ्गुलिभूषणः । गुल्फावधिकसंशोभिपीतचेलप्रभान्वितः ॥४९॥

Verse

किङ्किणीनादसंराजत्काञ्चीभूषणशोभितः । विश्वक्षोभकरश्रीकमसृणोरुद्वयान्वितः ॥५०॥

Verse

इन्द्रनीलाश्मनिष्पन्नसम्पुटाकृतिजानुकः । स्मरतूणाभलक्ष्मीकजङ्घाद्वयविराजितः ॥५१॥

Verse

मांसलगुल्फलक्ष्मीको महासौभाग्यसंयुतः । ह्रींङ्कारतत्त्वसम्बोधिनूपुरद्वयराजितः ॥५२॥

Verse

आदिकूर्मावतारश्रीजयिष्णुप्रपदान्वितः । नमज्जनतमोवृन्दविध्वंसकपदद्वयः ॥५३॥

Verse

नखज्योत्स्नालिशैशिर्यपरविद्याप्रकाशकः । रक्तशुक्लप्रभामिश्रपादुकाद्वयवैभवः ॥५४॥

Verse

दयागुणमहावार्धिर्गुरुवायुपुरेश्वरः । फलश्रुतिः - इत्येवं कथितं देवि नाम्नामष्टोत्तरं शतम् ॥५५॥

Verse

गुरुवायुपुरेशस्य सर्वसिद्धिविधायकम् । कृष्णाष्टमीसमारब्धमासेनैकेन सिद्धिदम् ॥५६॥

Verse

कृष्णाष्टमीं समारभ्य यावदन्याऽसिताऽष्टमी । तावत्कालं स्तोत्रमेतत् प्रत्यहं शतशः पठेत् ॥५७॥

Verse

मातृकापुटितं कृत्वा हित्वाऽऽलस्यं सुमङ्गले । एकान्तभक्तियुक्तो हि गुरुवायुपुरेश्वरे ॥५८॥

Verse

जीवन्नेव स भक्ताग्र्यो माधवाधिष्ठितो भवेत् । तप्तकाञ्चनगौरे हि तच्छरीरे सदा लसन् ॥५९॥

Verse

गुरुवायुपुराधीशोऽद्भुतानि हि करिष्यति । अत आवां महेशानि गच्छावः शरणं हि तम् ॥६०॥

Verse

कारुण्यमूर्तिमीशानं गुरुवायुपुरेश्वरम् । उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥६१॥

Verse

महावैकुण्ठनाथस्य गुरुवायुपुरेशितुः ।

Verse

अष्टोत्तरशतं नाम्नां सर्वसिद्धिविलासकम् । अध्यायं सप्तमं पूर्णमवदातं करोत्युमे ॥६२॥

Verse

इति श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नं सम्पूर्णम् ।

śrīguruvātapurādhīśāṣṭottaraśatanāmastotram
śrīgurvāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms