Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīguruvātapurādhīśāṣṭottaraśatanāmastotram

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

Verse

ध्यानम् - पीताम्बरं करविराजितशङ्खचक्र- कौमोदकीसरसिजं करुणासमुद्रम् । राधासहायमतिसुन्दरमन्दहासं वातालयेशमनिशां हृदि भावयामि ॥

Verse

कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः । रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥१॥

Verse

वातरोगहरो विष्णुः उद्धवादिप्रपूजितः । भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥२॥

Verse

लोकविख्यातचारित्रः शङ्कराचार्यपूजितः । पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥३॥

Verse

नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः । नारायणसरस्तीरवासी नारदपूजितः ॥४॥

Verse

विप्रनित्यान्नदाता च विविधाकृतिशोभितः । तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥५॥

Verse

कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः । क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥६॥

Verse

निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः । देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥७॥

Verse

पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः । मन्दारमालासंवीतः मुक्तादामविभूषितः ॥८॥

Verse

पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः । गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥९॥

Verse

गानविद्याप्रदाता च वेणुनादविशारदः । भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥१०॥

Verse

तुलाभारसमायातजनसर्वार्थदायकः । पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥११॥

Verse

पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः । तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥१२॥

Verse

पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः । पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥१३॥

Verse

महारोगहरो वैद्यनाथो वेदविदर्चितः । धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥१४॥

Verse

आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः । वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥१५॥

Verse

मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः । पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥१६॥

Verse

देवकीवसुदेवादिपूजितो राधिकापतिः । श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥१७॥

Verse

कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः । अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥१८॥

Verse

गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः । पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥१९॥

Verse

पुराणरत्नपठनश्रवणानन्दपूरितः । माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥२०॥

Verse

दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः । पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥२१॥

Verse

आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः । नवनीतप्रियो नन्दनन्दनो रासनायकः ॥२२॥

Verse

यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः ।

Verse

भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः । दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥२३॥

Verse

गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् । दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥२४॥

Verse

श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् । तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥२५॥

Verse

इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

gītāsāragurvaṣṭottaraśatanāmastotram
śrīguruvāyupureśvarāṣṭottaraśatanāmastotraratnam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms