aSTottaranAma
gītāsāragurvaṣṭottaraśatanāmastotram
गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम्
Verse
प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः । योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥१॥
Verse
स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः । मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥२॥
Verse
स्थिरबुद्धिरसम्मूढो जितात्मा विगतस्पृहः । सर्वसङ्कल्पसंन्यासी भकः सङ्गविवर्जितः ॥३॥
Verse
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥४॥
Verse
ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः । वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥५॥
Verse
सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् । यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥६॥
Verse
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । अनिकेतः स्थिरमतिर्महात्मा दृडनिश्चयः ॥७॥
Verse
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षम आत्मवान् । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥८॥
Verse
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥९॥
Verse
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितन्द्रियः । निस्त्रैगुण्यो वशी ज्ञानी समलोष्टाश्मकाञ्चनः ॥१०॥
Verse
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥११॥
Verse
विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः । अन्तःसुखोऽन्तरारामः सन्तुष्टः सर्ववित्पुमान् ॥१२॥
Verse
सर्वभूतात्मभूतात्मा तत्त्ववित्समदर्शनः । गतिर्भर्ता प्रभुःसाक्षी निवासः शरणं सुहृत् ॥१३॥
Verse
आत्मतृप्तो गुरुः पूज्यो गरीयान् पुरुषोत्तमः । ब्रह्मभूतः प्रसन्नात्मा कृतकृत्यो विराजते ॥१४॥
Verse
स्थितप्रज्ञो गुणातीतो लोकानुग्रहकाम्यया । शारदायाश्चरा मूर्तिः शृङ्गशैले जगद्गुरुः ॥१५॥
Verse
गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः । आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥१६॥
Verse
वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् । कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥१७॥
Verse
इति श्रीकृष्णस्वाम्यार्येण विरचितं गीतासारगुर्वष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
