aSTottaranAma
śrīkamalāṣṭottaraśatanāmastotram
श्रीकमलाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीशिव उवाच शतमष्टोत्तरं नाम्नां कमलाया वरानने । प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥१॥
Verse
महामाया महालक्ष्मीर्महावाणी महेश्वरी । महादेवी महारात्रिर्महिषासुरमर्दि नी ॥२॥
Verse
कालरात्रिः कुहूः पूर्णा नन्दाऽऽद्या भद्रिका निशा । जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥३॥
Verse
शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा । महावराहजननी मदनोन्मथिनी मही ॥४॥
Verse
वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता । विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥५॥
Verse
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी । गदिनी मुण्डमाला च कमला करुणालया ॥६॥
Verse
पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी । गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥७॥
Verse
गया गङ्गा च यमुना गोमती गरुडासना । गण्डकी सरयूस्तापी रेवा चैव पयस्विनी ॥८॥
Verse
नर्मदा चैव कावेरी केदारस्थलवासिनी । किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥९॥
Verse
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता । कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥१०॥
Verse
श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा । इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥११॥
Verse
त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी । तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥१२॥
Verse
मधुकैटभमथनी शुम्भासुरविनाशिनी । निशुम्भादि हरा माता हरिशङ्करपूजिता ॥१३॥
Verse
सर्वदेवमयी सर्वा शरणागतपालिनी । शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥१४॥
Verse
गन्धर्वगानरसिका गीता गोविन्दवल्लभा । त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥१५॥
Verse
चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता । चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥१६॥
Verse
सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी । इति ते कथितं देवि रमानामशताष्टकम् ॥१७॥
Verse
त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः । यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥१८॥
Verse
इमं स्तवं यः पठतीह मर्त्यो वैकुण्ठपत्न्याः परसादरेण । धनाधिपाद्यैः परिवन्दितः स्यात् प्रयास्यति श्रीपदमन्तकाले ॥१९॥
Verse
इति श्रीकमलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
