Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

kārtikeyaśatāṣṭanāmastotram

कार्तिकेयशताष्टनामस्तोत्रम्

Verse

(शिवरहस्यान्तर्गते ईशाख्ये) (विष्णुब्रह्मादयो देवाः कृतम्) षण्मुखः सुमुखस्त्राता लेखसेनापतिः प्रभुः ॥५३॥

Verse

शक्तिहस्तो दुराधर्षो वीतिहोत्राङ्गजो बली । क्रौञ्चाद्रिमथनो योगी सुब्रह्मण्यो मखेडितः ॥५४॥

Verse

गाङ्गेयो वैद्युतोऽमोघस्तारकान्तकरो रविः । महासेनो देववैद्यः प्रणवार्थप्रकाशकः ॥५५॥

Verse

महासेनः शरवणोद्भवो भवसुतोऽनघः । विनायकानुजः श्रीमान् शूरसंहारकारकः ॥५६॥

Verse

सेनानीर्दुर्दुरो वीरो गर्भो विश्वपतिः कविः । गुरुर्हरिहयः शास्ता शरासनकरः शरी ॥५७॥

Verse

व्यापकोऽनन्तशक्तिः सुकुमारः प्रोज्ज्वलाङ्गकः । वीराबाहुर्गणाध्यक्षस्त्र्यक्षप्रीतो विशारदः ॥५८॥

Verse

कान्तः शान्तो जितारातिरुमाकान्तात्मजोऽपरः । वल्लीपतिर्जितारातिः कुक्कुटोत्तमकेतनः ॥५९॥

Verse

शिवलिङ्गार्चनप्रीतो गन्धपुष्पाद्यलङ्कृतः । मुकुटी चाङ्गदी चक्री गदी शङ्खी शिखी जटी ॥६०॥

Verse

सनातनपरस्तारस्तारकस्तारकान्तकृत् । संवर्तो यौवनी(?) वीरो बालो लीलाविनोदकृत् ॥६१॥

Verse

प्रसन्नाक्षः पङ्कजाक्षः शम्बरः शम्बरप्रियः । सुपल्लवः शिवो धन्वी खड्गखेटधरः स्तुतः ॥६२॥

Verse

विश्वप्रियोऽनन्तशक्तिः सुराध्यक्षो दुरासदः । प्रमोदो मेघदमनः शक्रपूज्यः शतक्रतुः ॥६३॥

Verse

कृत्तिकासूनुरमलः कृत्तिवासःप्रियो विराट् । स्वाहाप्रियः कार्तिकेयो हरणो वेगवत्तरः ॥६४॥

Verse

स्वर्णवर्णः पारिभद्रस्ताम्रस्तारणकारकः । सुपुष्करमहामालो ललिताङ्गः सुरावनः ॥६५॥

Verse

यशस्करोऽमरपरो गीतवान् तत्प्रियोऽर्तिहा । वीरभद्रमहागर्वस्तम्भनस्तत्परः सखा ॥६६॥

Verse

निरञ्जनो निराधारः शक्रसेनापतिर्वटुः । ब्रह्मचारी गिरिचरः सर्परूपो दुरासदः ॥६७॥

Verse

षष्ठीप्रीतः कुमारश्च स्मरस्मेरास्यसुन्दरः । विज्ञानदः शिवो ज्ञानी शिवभक्तशिरोमणिः ॥६८॥

Verse

॥ इति शिवरहस्यान्तर्गते कार्तिकेयशताष्टनामस्तोत्रं सम्पूर्णम् ॥

śrīkamalāṣṭottaraśatanāmastotram
śrīkārtikeyāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms