Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

kālīśatanāmastotraṃ

कालीशतनामस्तोत्रं

Verse

श्रीदेव्युवाच- नमस्ते पार्वतीनाथ विश्वनाथ दयामय । ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो ॥१॥

Verse

दीनवन्धो दयासिन्धो विश्वेश्वर जगत्पते ।

Verse

इदानीं श्रोतुमिच्छामि गोप्यं परमकारणम् । रहस्यं कालिकायश्च तारायाश्च सुरोत्तम ॥२॥

Verse

श्रीशिव उवाच- रहस्यं किं वदिष्यामि पञ्चवक्त्रैर्महेश्वरी । जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ॥३॥

Verse

वक्तुं न शक्यते तस्य माहात्म्यं वै कथञ्चन । तस्या रहस्यं गोप्यञ्च किं न जानासि शङ्करी ॥४॥

Verse

स्वस्यैव चरितं वक्तुं समर्था स्वयमेव हि । अन्यथा नैव देवेशि ज्ञायते तत् कथञ्चन ॥५॥

Verse

कालिकायाः शतं नाम नाना तन्त्रे त्वया श्रुतम् । रहस्यं गोपनीयञ्च तत्रेऽस्मिन् जगदम्बिके ॥६॥

Verse

(ॐ) करालवदना काली कामिनी कमला कला । क्रियावती कोटराक्षी कामाक्ष्या कामसुन्दरी ॥७॥

Verse

कपाला च कराला च काली कात्यायनी कुहुः । कङ्काला कालदमना करुणा कमलार्च्चिता ॥८॥

Verse

कादम्बरी कालहरा कौतुकी कारणप्रिया । कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा ॥९॥

Verse

कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिनी । कालिका कालरात्रीश्च कुलजा कुलपण्डिता ॥१०॥

Verse

कुलधर्मप्रिया कामा काम्यकर्मविभूषिता । कुलप्रिया कुलरता कुलीनपरिपूजिता ॥११॥

Verse

कुलज्ञा कमलापूज्या कैलासनगभूषिता । कूटजा केशिनी काम्या कामदा कामपण्डिता ॥१२॥

Verse

करालास्या च कन्दर्पकामिनी रूपशोभिता । कोलम्बका कोलरता केशिनी केशभूषिता ॥१३॥

Verse

केशवस्यप्रिया काशा काश्मीरा केशवार्च्चिता । कामेश्वरी कामरूपा कामदानविभूषिता ॥१४॥

Verse

कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता । कोलिनी करकाकारा करकर्मनिषेविणी ॥१५॥

Verse

कटकेश्वरमध्यस्था कटकी कटकार्च्चिता । कटप्रिया कटरता कटकर्मनिषेविणी ॥१६॥

Verse

कुमारीपूजनरता कुमारीगणसेविता । कुलाचारप्रिया कौलप्रिया कौलनिषेविणी ॥१७॥

Verse

कुलीना कुलधर्मज्ञा कुलभीतिविमर्द्दिनी । कालधर्मप्रिया काम्य-नित्या कामस्वरूपिणी ॥१८॥

Verse

कामरूपा कामहरा काममन्दिरपूजिता । कामागारस्वरूपा च कालाख्या कालभूषिता ॥१९॥

Verse

क्रियाभक्तिरता काम्यानाञ्चैव कामदायिनी । कोलपुष्पम्बरा कोला निकोला कालहान्तरा ॥२०॥

Verse

कौषिकी केतकी कुन्ती कुन्तलादिविभूषिता । इत्येवं शृणु चार्वङ्गि रहस्यं सर्वमङ्गलम् ॥२१॥

Verse

फलश्रुतिः- यः पठेत् परया भक्त्या स शिवो नात्र संशयः । शतनामप्रसादेन किं न सिद्धति भूतले ॥२२॥

Verse

ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः । रहस्यपठनाद्देवि सर्वे च विगतज्वराः ॥२३॥

Verse

त्रिषु लोकेशु विश्वेशि सत्यं गोप्यमतः परम् । नास्ति नास्ति महामाये तन्त्रमध्ये कथञ्चन ॥२४॥

Verse

सत्यं वचि महेशानि नातःपरतरं प्रिये । न गोलोके न वैकुण्ठे न च कैलासमन्दिरे ॥२५॥

Verse

रात्रिवापि दिवाभागे यदि देवि सुरेश्वरी । प्रजपेद् भक्तिभावेन रहस्यस्तवमुत्तमम् ॥२६॥

Verse

शतनाम प्रसादेन मन्त्रसिद्धिः प्रजायते । कुजवारे चतुर्द्दश्यां निशाभागे जपेत्तु यः ॥२७॥

Verse

स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः । स कुलज्ञः स कालज्ञः स धर्मज्ञो महीतले ॥२८॥

Verse

रहस्य पठनात् कोटि-पुरश्चरणजं फलम् । प्राप्नोति देवदेवेशि सत्यं परमसुन्दरी ॥२९॥

Verse

स्तवपाठाद् वरारोहे किं न सिद्धति भूतले । अणिमाद्यष्टसिद्धिश्च भवेत्येव न संशयः ॥३०॥

Verse

रात्रौ बिल्वतलेऽश्वथ्थमूलेऽपराजितातले । प्रपठेत् कालिका-स्तोत्रं यथाशक्त्या महेश्वरी ॥३१॥

Verse

शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद्ध्रूवम् । नानातन्त्रं श्रुतं देवि मम वक्त्रात् सुरेश्वरी ॥३२॥

Verse

मुण्डमालामहामन्त्रं महामन्त्रस्य साधनम् । भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् ॥३३॥

Verse

संस्मरेद् यो जपेद्ध्यायेत् स मुक्तो नात्र संशय । जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः ॥३४॥

Verse

स साधको महाज्ञानी यश्च दुर्गापदानुगः । न च भक्तिर्न वाहभक्तिर्न मुक्तिनगनन्दिनि ॥३५॥

Verse

विना दुर्गां जगद्धात्री निष्फलं जीवनं भभेत् । शक्तिमार्गरतो भूत्वा योहन्यमार्गे प्रधावति ॥३६॥

Verse

न च शाक्तास्तस्य वक्त्रं परिपश्यन्ति शङ्करी । विना तन्त्राद् विना मन्त्राद् विना यन्त्रान्महेश्वरी ॥३७॥

Verse

न च भुक्तिश्च मुक्तिश्च जायते वरवर्णिनी । यथा गुरुर्महेशानि यथा च परमो गुरुः ॥३८॥

Verse

तन्त्रावक्ता गुरुः साक्षाद् यथा च ज्ञानदः शिवः । तन्त्रञ्च तन्त्रवक्तारं निन्दन्ति तान्त्रीकीं क्रियाम् ॥३९॥

Verse

ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः ।

Verse

अतएव च तन्त्रज्ञं स निन्दन्ति कदाचन । न हस्तन्ति न हिंसन्ति न वदन्त्यन्यथा बुधा ॥४०॥

Verse

॥ इति मुण्डमालातन्त्रेऽष्टमपटले देवीश्वर संवादे कालीशतनामस्तोत्रं सम्पूर्णम् ॥

umā'ṣṭottaraśatanāmastotram
śrīkamalāṣṭottaraśatanāmastotram

Read next

More on कालीशतनामस्तोत्रं

  • श्रीकालीशतनामस्तोत्रम्Ashtottaranama
  • कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms