Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīkālīśatanāmastotram

श्रीकालीशतनामस्तोत्रम्

Verse

भैरव उवाच - शतनाम प्रवक्ष्यामि कालिकाया वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥१॥

Verse

ॐ काली कपालिनी कान्ता कामदा कामसुन्दरी । कालरात्रिः कालिका च कालभैरवपूजिता ॥२॥

Verse

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी । कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥३॥

Verse

कस्तूरीरसनीला च काम्या कामस्वरूपिणी । ककारवर्णनिलया कामधेनुः करालिका ॥४॥

Verse

कुलकान्ता करालास्या कामार्ता च कलावती । कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥५॥

Verse

कुलजा कुलकन्या च कुलहा कुलपूजिता । कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥६॥

Verse

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी । कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥७॥

Verse

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा । क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥८॥

Verse

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी । कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥९॥

Verse

कुलस्त्री कीर्त्तिका कृत्या कीर्तिश्च कुलपालिका । कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥१०॥

Verse

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका । कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥११॥

Verse

कुमारीपूजनरता कुमारीगणशोभिता । कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥१२॥

Verse

कङ्काली कमनीया च कामशास्त्रविशारदा । कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥१३॥

Verse

कोटरी कोटराक्षी च काशी कैलासवासिनी । कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥१४॥

Verse

कामाकर्षणरूपा च कामपीठनिवासिनी । कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥१५॥

Verse

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी । कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥१६॥

Verse

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा । इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥१७॥

Verse

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् । त्रिषु लोकेषु देवेशि तस्यासाध्यं न विद्यते ॥१८॥

Verse

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि । यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥१९॥

Verse

कालिका तस्य गेहे च संस्थानं कुरुते सदा । शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥२०॥

Verse

वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये । शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥२१॥

Verse

कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः । साधकस्सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥२२॥

Verse

इति श्रीकालीशतनामस्तोत्रं सम्पूर्णम् ॥

Verse

दक्षिणकालिकाशतनामस्तवः

karārakūṭaghaṭitaṃ kālikāśatanāmastotram
kālīśatanāmastotram bṛhannīlatantrārgatam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms