Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

karārakūṭaghaṭitaṃ kālikāśatanāmastotram

करारकूटघटितं कालिकाशतनामस्तोत्रम्

Verse

(महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गते) अन्यनामानि - आद्याकालीस्वरूपाख्यं शतनामस्तोत्रम् ककारकूटस्तवः आद्याकालिकाशतनामस्तोत्रम् श्रीसदाशिव उवाच ।

Verse

शृणु देवि जगद्वन्द्ये स्तोत्रमेतदमुत्तमम् । पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥

Verse

असौभाग्य प्रशमनं सुखसम्पद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्निवारणम् ॥

Verse

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।

Verse

स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥(प्रसादेन, शिवे) स्तोत्रस्यास्य ऋषिर्देवि ! सदाशिव उदाह्दृतः ।

Verse

छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥

Verse

अथ शतनामस्तोत्रम् ।

Verse

ॐ अस्य करारकूटघटितं श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः ।

Verse

अनुष्टुप्छन्दः ।

Verse

श्री आद्याकालिका देवता । धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥

Verse

ॐ ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥१॥

Verse

कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥२॥

Verse

कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥३॥

Verse

कालरात्रिः कामरूपा कामपाशविमोचिनी । (विमोचनी) कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥४॥

Verse

कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥५॥

Verse

कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥६॥

Verse

किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥७॥

Verse

(४०) कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥८॥

Verse

कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥९॥

Verse

कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥१०॥

Verse

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥११॥

Verse

कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥१२॥

Verse

कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥१३॥

Verse

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी । कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥१४॥

Verse

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता । कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥१५॥

Verse

कर्पूरसागरस्नाता कर्पूरसागरालया । कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥१६॥

Verse

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी । कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥१७॥

Verse

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी । काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥१८॥

Verse

कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा । काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥१९॥

Verse

कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥२०॥

Verse

क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी ।

Verse

(१००) इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् । ककारकूटघटितं कालीरूपस्वरूपकम् ॥२२॥

Verse

ककारकूटकीर्त्तनफलं - पूजाकाले पठेद्यस्तु कालिकाकृतमानसः । मन्त्रसिद्धिर्भवेदाषु तस्य काली प्रसीदति ॥१॥

Verse

बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः । धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ॥२॥

Verse

पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि । भौमावास्यानिशाभागे मपञ्चकसमन्वितः ॥३॥

Verse

पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् । पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ॥४॥

Verse

नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन । विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ॥५॥

Verse

समुद्र इव गाम्भीर्ये बले च पवनोपमः । तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ॥६॥

Verse

रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः । सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ॥७॥

Verse

यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् । तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ॥८॥

Verse

रणे राजकुले द्यूते विवादे प्राणसङ्कटे । दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ॥९॥

Verse

अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा । ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ॥१०॥

Verse

बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने । दुस्तरे सलिले वापि पोते वातविपद्गते ॥११॥

Verse

विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् । यः पठेच्छतनामानि दृढभक्तिसमन्वितः ॥१२॥

Verse

सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः । न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् ॥१३॥

Verse

सर्वत्र विजयस्तस्य न कुत्रापि पराभवः । तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ॥१४॥

Verse

स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् । स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ॥१५॥

Verse

वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे । तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ॥१६॥

Verse

दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः । आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ॥१७॥

Verse

अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते । पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥१८॥

Verse

शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ।

Verse

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥१९॥

Verse

॥ इति महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गतं कालिकाशतनामस्तोत्रं सम्पूर्णम् ॥

ādyā kālikādevyāḥ śatanāmastotram
śrīkālīśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms