aSTottaranAma
ādyā kālikādevyāḥ śatanāmastotram
आद्या कालिकादेव्याः शतनामस्तोत्रम्
Verse
॥ श्रीगणेशाय नमः ॥
Verse
॥ श्रीउमामहेश्वराभ्यां नमः ॥
Verse
श्रीसदाशिव उवाच ॥
Verse
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् । पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥१॥
Verse
असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥२॥
Verse
श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् । स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥३॥
Verse
स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
Verse
छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥४॥
Verse
ॐ अस्य श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः ।
Verse
अनुष्टुप्छन्दः ।
Verse
श्री आद्याकालिका देवता । धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥
Verse
ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥५॥
Verse
कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥६॥
Verse
कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥७॥
Verse
कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥८॥
Verse
कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥९॥
Verse
कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥१०॥
Verse
किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥११॥
Verse
कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥१२॥
Verse
कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥१३॥
Verse
कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥१४॥
Verse
कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥१५॥
Verse
कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥१६॥
Verse
कस्तूरीसौरभामोदा कस्तूरितिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥१७॥
Verse
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी । कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥१८॥
Verse
कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता । कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥१९॥
Verse
कर्पूरसागरस्नाता कर्पूरसागरालया । कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥२०॥
Verse
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी । कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥२१॥
Verse
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी । काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥२२॥
Verse
कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा । काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥२३॥
Verse
कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥२४॥
Verse
क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी । इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ॥२५॥
Verse
ककारकूटघटितं कालीरूपस्वरूपकम् । पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥२६॥
Verse
मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति । बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ॥२७॥
Verse
धनवान् कीर्त्तिमान् भूयाद्दानशीलो दयान्वितः । पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥२८॥
Verse
भौमावास्यानिशाभागे मपञ्चकसमन्वितः । पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥२९॥
Verse
पठित्वा शतनामानि साक्षात् कालीमयो भवेत् । नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥३०॥
Verse
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् । समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥३१॥
Verse
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः । रूपे मूर्त्तिधरः कामो योषितां हृदयङ्गमः ॥३२॥
Verse
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः । यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥३३॥
Verse
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः । रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥३४॥
Verse
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा । अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥३५॥
Verse
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले । बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ॥३६॥
Verse
दुस्तरे सलिले वापि पोते वातविपद्गते । विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥३७॥
Verse
यः पठेच्छतनामानि दृढभक्तिसमन्वितः । सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥३८॥
Verse
न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् । सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥३९॥
Verse
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः । स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥४०॥
Verse
स कर्त्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः । वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥४१॥
Verse
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः । दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥४२॥
Verse
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् । अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ॥४३॥
Verse
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् । शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥४४॥
Verse
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥४५॥
Verse
इति महानिर्वाण्तन्त्रान्तर्गतं आद्या कालिकादेव्याः शतनामस्तोत्रं सम्पूर्णम् ।
