Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

viśvakarmanāmāṣṭottaraśatakam

विश्वकर्मनामाष्टोत्तरशतकम्

Verse

श्रीगणेशाय नमः ।

Verse

अथ श्रीविश्वकर्मनामाष्टोत्तरशतकं प्रारम्भम् ।

Verse

अस्य श्रीविश्वकर्मनामाष्टोत्तरशतकस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः ।

Verse

श्रीविश्वकर्मा देवता ।

Verse

अनुष्टुप्छन्दः । सर्वाभीष्टसिद्ध्यर्थं श्रीविश्वकर्मप्रीत्यर्थे जपे विनियोगः ॥

Verse

अथ ध्यानम् ।

Verse

पञ्चाननो दशभुजा घृतवद दीक्षः केयूरहारमणिकुण्डलचण्डतेजाः । भस्माङ्कितो मणिमयासनसंस्थितोऽसौ सर्वेश्वरो वसतु मे हृदि विश्वकर्मा ॥

Verse

ॐ विश्वकर्मा मनुस्त्वष्टा स्थाष्ठि च स्थविरो ध्रुवः । विष्णुर्वैश्वानरो योगी शिल्पाचार्यः क्रियापरः ॥१॥

Verse

अमयी निर्भयः शान्तः सत्यव्यामः सतां प्रियः । लोकाध्यक्षः सुराध्यक्षो वरदोऽभयदो वरः ॥२॥

Verse

मयो मन्द्रर्महातेजाः शिवयोगी हरिप्रियः । कायदः कयदः कान्तः कुलीनः कौशलप्रदः ॥३॥

Verse

दाता सत्यः स्वराड्विभुः गृहस्थाश्रमिणो मतिः ॥

Verse

वनवासी महामायो रूपाध्यक्षो ह्यचिन्तितः ॥४॥

Verse

स्वापनः शाघ्र सोचिन्त्यः कौशलः कर्मठो नरः ॥

Verse

जटी मुण्डी शिखी देवः संवृत्ताङ्गः पिशाचराट् ॥५॥

Verse

शास्त्रविधिर्विधिकरो लोकेशः पावनः परः ॥

Verse

हरो बुद्धिप्रदोऽनन्तः सत्यसङ्कल्प ईश्वरः ॥६॥

Verse

सत्यकामः सत्यरुचिः सत्यार्थः शम्भवः शिवः ॥

Verse

नादप्रियो बोधकर्ता करुणाश्रीरायुधप्रियः ॥७॥

Verse

घना खड्गी ध्वजी वर्मी शूली चक्री कपालभृत् । अजरो प्रणवो व्यक्तोऽव्यक्तः कृष्णो यजुर्डविः ॥८॥

Verse

यज्ञ इज्यो महान्स्पष्टः सोयी सम्राड् भवोऽभवः ॥

Verse

नाथः शिल्पी कविः शूरो मुनिर्मौनी दिगम्बरः ॥९॥

Verse

सर्वायुधिः सर्वसहः सर्वकृत् शङ्करप्रभुः ॥

Verse

इत्यष्टशतसङ्ख्याभिर्नामभिः संस्तुतो मयः ॥१०॥

Verse

इत्यष्टशतनामेदं यः पठेन्नित्यशो नरः । सोऽर्थी यशः समाप्नोति श्रेयः सकलसम्पदः ॥११॥

Verse

इति विश्वकर्मनामाष्टोत्तरशतकं सम्पूर्णम् ।

śrīvidyāraṇyāṣṭottaraśatanāmastotram
śrīviṣṇorakārādyaṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms