Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīvidyāraṇyāṣṭottaraśatanāmastotram

श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीविद्यारण्यमुनिध्यानम् - अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा । विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥

Verse

विद्याविद्याविवेकेन पारं संसारवारिधेः । प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये ॥

Verse

अथ श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ।

Verse

विद्यारण्यमहायोगी महाविद्याप्रकाशकः । श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥१॥

Verse

रामायणमहासप्तकोटिमन्त्रप्रकाशकः । श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥२॥

Verse

विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकः । वेदत्रयोल्लसद्भाष्यकर्ता तत्त्वार्थकोविदः ॥३॥

Verse

भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभुः । वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥४॥

Verse

श्रीमत्कर्णाटराज्यश्रीसम्पत्सिंहासनप्रदः । श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥५॥

Verse

आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकः । सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥६॥

Verse

सर्वशास्त्रार्थतत्त्वज्ञो मन्त्रशास्त्राब्धिमन्थरः । विद्वन्मणिशिरः श्लाघ्यबहुग्रन्थविधायकः ॥७॥

Verse

सारस्वतसमुद्धर्ता सारासारविचक्षणः । श्रौतस्मातसदाचारसंस्थापनधुरन्धरः ॥८॥

Verse

वेदशास्त्रबहिर्भूतदुर्मताम्बोधिशोषकः । दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥९॥

Verse

यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तरः । अष्टाङ्गयोगनिष्णातस्साङ्ख्ययोगविशारदः ॥१०॥

Verse

राजाधिराजसन्दोहपूज्यमानपदाम्बुजः । महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥११॥

Verse

तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकः । महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥१२॥

Verse

श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः । तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥१३॥

Verse

निरन्तरशिवध्यानशोषिताखिलकल्मषः । निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥१४॥

Verse

जितेन्द्रियः सत्यवादी सत्यसन्धो दृढव्रतः । शान्तात्मा सुचरित्राढ्यः सर्वभूतहितोत्सुकः ॥१५॥

Verse

कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः । महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥१६॥

Verse

तपोराशिर्ज्ञानराशिः कल्याणगुणवारिधिः । नीतिशास्त्रसमुद्धर्ता प्राज्ञमौलिशिरोमणिः ॥१७॥

Verse

शुद्धसत्त्वमयोधीरो देशकालविभागवित् । अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥१८॥

Verse

गुणत्रयविभागज्ञः संन्यासाश्रमदीक्षितः । ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्ज्वलः ॥१९॥

Verse

रुद्राक्षमालिकाधारी भस्मोद्धूलितदेहवान् । अक्षमालालसद्धस्तस्त्रिपुण्ड्राङ्कितमस्तकः ॥२०॥

Verse

धरासुरतपः सम्पत्फलं शुभमहोदयः । चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकः ॥२१॥

Verse

श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः । रत्नगर्भगणेशानप्रपूजनपरायणः ॥२२॥

Verse

शारदाम्बादिव्यपीठसपर्यातत्पराशयः । अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥२३॥

Verse

सुज्ञानसत्कृतजगल्लोकानन्दविधायकः । वाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥२४॥

Verse

निर्ममो निरहङ्कारो निरालस्यो निराकुलः । निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥२५॥

Verse

गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः । सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥२६॥

Verse

शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः । प्रतिज्ञातार्थनिर्वोढा निग्रहानुग्रहप्रभुः ॥२७॥

Verse

जगत्पूज्यः सदानन्दः साक्षाच्छङ्कररूपभृत् । महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणः ॥२८॥

Verse

विद्यारण्यमहायोगिनाम्नामष्टोत्तरं शतम् । यः पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥२९॥

Verse

इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīvidyāgaṇeśāṣṭottaraśatanāmastotram
viśvakarmanāmāṣṭottaraśatakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms