aSTottaranAma
śrīviṣṇorakārādyaṣṭottaraśatanāmastotram
श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम्
Verse
(श्रीविष्णुसहस्रनामावल्यन्तर्गतं) (सभाष्यम्) ओक्षरोऽजोऽच्युतोऽमोघोऽनिरुद्धोऽनिमिषोऽग्रणीः । अव्ययोऽनादिनिधनोऽमेयात्माऽसम्मितोऽनिलः ॥१॥
Verse
अप्रमेर्योऽव्ययोऽग्राह्योऽमृतोऽव्यङ्गोऽच्युतोऽतुलः । अतीन्द्रोऽतीन्द्रियोऽदृश्योऽनिर्देश्यवपुरन्तकः ॥२॥
Verse
अनुत्तमोऽनघोऽमोघोऽप्रमेयात्माऽमिताशनः । अहःसवर्तकोऽनन्तजिदभूरजितोऽच्युतः ॥३॥
Verse
असङ्ख्येयोऽमृतवपुरर्थोऽनर्थोऽमितविक्रमः । अविज्ञाताऽरविन्दाक्षोऽनुकूलोऽहरपान्निधिः ॥४॥
Verse
अमृतांशूद्भवोऽमृत्युरमरप्रभुरक्षरः । अभोनिधिरनन्तात्माऽजोऽनलोऽसदधोक्षजः ॥५॥
Verse
अशोकोऽमृतपोऽनीशोऽनिरुद्धोऽमितविक्रमः । अनिर्विण्णोऽनयोऽनन्तोऽविधेयात्माऽपराजितः ॥६॥
Verse
अधिष्ठानमनन्तश्रीरप्रमत्तोऽप्ययोऽग्रजः । अयोनिजोऽनिवर्त्यर्कोऽनिर्देश्यवपुरर्चितः ॥७॥
Verse
अर्चिष्मानप्रतिरथोऽनन्तरूपोऽपराजितः । अनामयोऽनलोऽक्षोभ्योऽनेकमूर्तिरमूर्तिमान् ॥८॥
Verse
अमृताशोऽचलोऽमान्यधृतोऽणुरनिलोऽद्भुतः । अमूर्तिरर्होऽभिप्रायोऽचिन्त्योऽनिर्विण्ण एव च ॥९॥
Verse
अनादिरन्नमन्नादोऽजोऽव्यक्तोऽक्रूर एव च । अमेयात्माऽनधोऽश्वत्थोऽक्षोभ्योऽरौद्र एव च ॥१०॥
Verse
अधाताऽनन्त इत्येवं नाम्रामष्टोत्तरं शतम् । विष्णोः सहस्रनामभ्योऽकारादि समुद्धृतम् ॥११॥
Verse
स्मृतं श्रुतमधीतं तत्प्रसादादघनाशनम् । ध्यातं चिराय तद्भावप्रदं सर्वार्थसाधकम् ॥१२॥
Verse
इति विष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
