aSTakam
svāmī vṛdhanṛsiṃhabhāratī viracitam
स्वामी वृधनृसिंहभारती विरचितम्
Verse
आशावशादष्टदिगन्तराले देशान्तरभ्रान्तमशान्तबुद्धिम् । आकारमात्रादवनीसुरं मां अकृत्यकृत्यं शिवपाहि शंभो ॥१॥
Verse
मांसास्थिमज्जामलमूत्रपात्रगात्राभिमानोज्झितकृत्यजालम् । मद्भावनं मन्मथपीडितांगम् मायामयं मां शिव पाहि शंभो ॥२॥
Verse
संसारमायाजलधिप्रवाहसंमग्नमुद्भ्रान्तमशान्तचित्तम् । त्वत्पादसेवाविमुखं सकामं सुदुर्जनं मां शिव पाहि शंभो ॥३॥
Verse
इष्टानृतं भ्रष्टमनिष्टधर्मं नष्टात्मबोधं नयलेशहीनम् । कष्टारिषड्वर्गनिपीडिताङ्गं दुष्टोत्तमं मां शिव पाहि शम्भो ॥४॥
Verse
वेदागमाभ्यासरसानभिज्ञं पादारविन्दं तव नार्चयन्तम् । वेदोक्तकर्माणि विलोपयन्तं वेदाकृते मां शिव पाहि शम्भो ॥५॥
Verse
अन्यायवित्तार्जनसक्तचित्तं अन्यासु नारीष्वनुरागवन्तम् । अन्यान्नभोक्तारमशुद्धदेहं आचारहीनं शिव पाहि शम्भो ॥६॥
Verse
पुरात्ततापत्रयतप्तदेहं परां गतिं गंतुमुपायवर्जम् । परावमानैकपरात्मभावं नराधमं मां शिव पाहि शम्भो ॥७॥
Verse
पिता यथा रक्षति पुत्रमीश जगत्पिता त्वं जगतः सहायः । कृतापराधं तव सर्वकार्ये कृपानिधे मां शिव पाहि शम्भो ॥८॥
