aSTakam
ārtatrāṇaparāyaṇagaṃgādharāṣṭakam
आर्तत्राणपरायणगंगाधराष्टकम्
Verse
क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान् सुरान् ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शंकं निजलीलया कबलयन् लोकान् ररक्षादरात् आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥१॥
Verse
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते । कारुण्यादुपमन्यवे निरवधिं क्षीरांबुधिं दत्तवान् आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥२॥
Verse
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः । नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथांगं ददौ आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥३॥
Verse
व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्बोधयन् आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥४॥
Verse
बालं शैवकुलोद्भवं परिहसत् स्वज्ञातिपक्षाकुलं खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् । दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन् आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥५॥
Verse
संत्रस्तेषु पुरा पुरासुरभयात् इन्द्रादिबृन्दारके- ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् । रक्षन् यः कृपया समस्तविबुधान् जित्वा सुरारीन् क्षणात् आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥६॥
Verse
श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं विश्वातीतमपि त्वमेव गतिरित्यालापयन्तं सकृत् । रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥७॥
Verse
गांगं वेगमवाप्य मान्यविबुधैः वोढुं पुरा याचितो दृष्ट्वा भक्तभगीरथेन विनुतो रुद्रो जटामण्डले । कारुण्यादवनीतले सुरनदीं आपूरयन् पावनीं आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः ॥८॥
