aSTakam
gokuleśāṣṭakam
गोकुलेशाष्टकम्
Verse
नन्दगोपभूपवंशभूषणं विभूषणं भूमिभूतिभूरिभाग्यभाजनं भयापहम् । धेनुधर्मरक्षणावतीर्णपूर्णविग्रहं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥१॥
Verse
गोपबालसुन्दरीगणावृतं कलानिधिं रासमण्डलीविहारकारिकामसुन्दरम् । पद्मयोनिशंकरादिदेवबृन्दवन्दितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥२॥
Verse
गोपराजरत्नराजिमन्दिरानुरिङ्गणं गोपबालबालिकाकुलानुरुद्धगायिनम् । सुन्दरीमनोजभावभाजनाम्बुजाननं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥३॥
Verse
कंसकेशिकुञ्जरादि दुष्टदैत्यदारणं इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् । कामधेनुकारिताभिधानगानशोभितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥४॥
Verse
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् । धेनुधूलिधूसराङ्गशोभिहारनूपुरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥५॥
Verse
वत्सधेनुगोपबालभीषणास्यवह्निपं केकिपिञ्छकल्पितावतंसशोभिताननम् । वेणुनादमत्तघोषसुन्दरीमनोहरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥६॥
Verse
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं शारदारविन्दबृन्दशोभिहंसजागतम् । दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥७॥
Verse
वासरावसानगोष्ठगामिगोगणानुगं धेनुदोहदेहगेहमोहविस्मयक्रियम् । स्वीयगोकुलेशदानदत्तभक्तरक्षणं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥८॥
