aSTakam
svarūpānusandhānāṣṭakam
स्वरूपानुसन्धानाष्टकम्
Verse
तपोयज्ञदानादिभिः शुद्धबुद्धि- र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या . परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥
Verse
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम् . यदाप्नोति तत्त्वं निदिध्यास विद्वान्- परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥
Verse
यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदहीनम् . अहंब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥
Verse
यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे . मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥
Verse
निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम् . अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥
Verse
यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम् . यदालोकने रूपमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥
Verse
अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम् . निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥७॥
Verse
यदानन्द सिन्धौ निमग्नः पुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः . तदा नः स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥
Verse
स्वरूपानुसन्धानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः . श्रुणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥
Verse
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वरूपानुसन्धानाष्टकम् संपूर्णम् ॥
