Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śaṅkarāṣṭakam

शङ्कराष्टकम्

Verse

॥ शङ्कराष्टकम् ॥

Verse

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् । कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥

Verse

१ चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्त्रर्याफालम् । कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥

Verse

२ कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् । संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥

Verse

३ कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् । विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥

Verse

४ त्रिपुरादिकदनुजांतं गिरिजाकान्तं सदैव संशान्तम् लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ।

Verse

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं दालयावेशम् । विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥

Verse

६ करतलकलिवपिनाकं विगतजराकं सुकर्मणां पाकम् ।

Verse

परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥७ भूतिविभूषितकार्य दुस्तरमायं विवर्जिवापायम् । प्रमथसमूहसहायं सायं प्रातनिरन्तरं वन्दे ॥

Verse

८ यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् । पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥

Verse

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ॥

svarūpānusandhānāṣṭakam
śrī murukāṣṭakam

Read next

More on शङ्कराष्टकम्

  • शङ्कराष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms