Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīraghunāthāṣṭakam

श्रीरघुनाथाष्टकम्

Verse

श्री गणेशाय नमः ।

Verse

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥१॥

Verse

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥२॥

Verse

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् । विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥३॥

Verse

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसम्मेलनसुखम् । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥४॥

Verse

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् । विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥५॥

Verse

विमानं चारुह्याऽनुजजनकजासेवितपद मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् । सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥६॥

Verse

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम् । नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥७॥

Verse

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति ज्ञात्वा जगति खलु गन्तारमजनम् ॥

Verse

अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥८॥

Verse

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् । पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम् ॥९॥

Verse

॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥

śrīkamalajadayitāṣṭakam
svarūpānusandhānāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms