aSTakam
śrīśivābhinavanṛsiṃhabhāratīsvāmiviracitam
श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्
Verse
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम् । वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥१॥
Verse
मातस्त्वत्पदपङ्कजं मुनिमनः कासारवासादरं मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् । मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका- द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥२॥
Verse
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् । बृन्दं प्राणभृतां स्वनामवदतामत्यादरात्सत्वरं षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥३॥
Verse
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम् । मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात्कालं तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥४॥
Verse
पापानि प्रशमं नयाशु ममतां देहेन्द्रियप्राणगां कामादीनपिवैरिणो दृढतरान् मोक्षाध्वविघ्नप्रदान् । स्निग्धान्पोषय सन्ततं शमदमध्यानादिमान्मोदतो मातस्त्वत्पदपङ्कजं ह्रुदि सदा कुर्वे गिरां देवते ॥५॥
Verse
मतस्त्वत्पदपङ्कजस्य मनसा वाचा क्रियातोऽपि वा ये कुर्वन्ति मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां । शीघ्रं ते प्रभवन्ति भूमिपतयो निन्दन्ति च स्वश्रिया जंभारातिमपि ध्रुवं शतमखीकष्टाप्तनाकश्रियं ॥६॥
Verse
मातस्त्वत्पदपङ्कजं शिरसि ये पद्माटवीमध्यतश्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् । ते मृत्युं प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥७॥
Verse
मातस्त्वत्पदपङ्कजं हृदि मुदा ध्यायन्ति ये मानवाः सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः । अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा सर्वं विश्वमिदं विनाशि तरसा पश्यन्ति ते पूरुषाः ॥८॥
Read next
More on श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्
- श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्Ashtakam
- श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्Ashtakam
- श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)Ashtakam
- श्रीकमलजदयिताष्टकम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)Ashtakam
- श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)Ashtakam
- श्रीमातृपदपङ्कजाष्टकम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)Ashtakam
