Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīvāgvādinīṣaṭkam (śrīśivābhinavanṛsiṃhabhāratīsvāmiviracitam)

श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)

Verse

वरदाप्यहेतुकरुणाजन्मावनिरपि पयॊजभवजाये । किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥१॥

Verse

किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा । किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥२॥

Verse

किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भेदश्च । औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥३॥

Verse

वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् । मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥४॥

Verse

ज्ञानं कर्म च मिलितं हेतुर्मॊक्षेऽथवा ज्ञानम् । तज्ज्ञानं केन भवेद्वद वदवाग्वादिनि स्वाहा ॥५॥

Verse

ज्ञानं विचारसाध्यं किं वा यॊगेन कर्मसाहस्रैः । कीदृक्सॊऽपि विचारो वद वद वाग्वादिनि स्वाहा ॥६॥

rogahara śrīguruvātapurādhipāṣṭakam
navagrahamaṅgalāṣṭakam

Read next

More on श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)

  • श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms