Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīkamalajadayitāṣṭakam (śrīśivābhinavanṛsiṃhabhāratīsvāmiviracitam)

श्रीकमलजदयिताष्टकम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)

Verse

शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि । शंभुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥१॥

Verse

कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङगशैले । संस्थाप्यार्चां प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥२॥

Verse

पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा- त्संपाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥३॥

Verse

विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥४॥

Verse

कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥५॥

Verse

मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः । मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥६॥

Verse

शान्त्याद्याः संपदो वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यंमोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने । विद्यातीर्थादियोगिप्रवरकरसरोजातसंपूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥७॥

Verse

सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः संपाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ । तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥८॥

ārtatrāṇaparāyaṇagaṃgādharāṣṭakam
śrīvāgvādinīṣaṭkam (śrīśivābhinavanṛsiṃhabhāratīsvāmiviracitam)

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms