Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīdevīmaṅgalāṣṭaka

श्रीदेवीमङ्गलाष्टक

Verse

कनत्कनकताटङ्कविलसन्मुखपङ्कजॆ । कारुण्यवारिधॆ त्वं मे सन्ततं मङ्गलं कुरु ॥१॥

Verse

खण्डिताखिलदैतेये खर्वशून्यास्त्रवैभवे । गिरिराजसुते देवि सन्ततं मङ्गलं कुरु ॥२॥

Verse

घनराजिनिभाखर्वसुगन्धिकुटिलालके । चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥३॥

Verse

छत्रीकृतयशोराशे छॆदिताखिलपातके । जगदाधारसन्मूर्ते सन्ततं मङ्गलं कुरु ॥४॥

Verse

तत्वमस्यादिलक्ष्यार्थॆ तापत्रयविभंजिनि । दण्डनीतिस्थिते देवि सन्ततं मङ्गलं कुरु ॥५॥

Verse

धराधरसुते देवि धनधान्यविवर्धनि । दयमानासितापाङ्गे सन्ततं मङ्गलं कुरु ॥६॥

Verse

पञ्चप्रेतासनासीने पञ्चसंख्योपचारिणि । परमानन्दनिलये सन्ततं मङ्गलं कुरु ॥७॥

Verse

अकारादिक्षकारन्त वर्णरूपे महेश्वरि । अविद्यामूलविच्छॆत्रि सन्ततं मङ्गलं कुरु ॥८॥

Verse

मंगलाष्टकमेतद्वै यः पठेत् भक्तिसंयुतः । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकं लभॆत् ॥९॥

Verse

==========================

śrī śaṃkarācāryakṛtaṃ
brahmānandaviracitam

Read next

More on श्रीदेवीमङ्गलाष्टक

  • श्रीदेवीमङ्गलाष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms