aSTakam
śrīdevīmaṅgalāṣṭakam
श्रीदेवीमङ्गलाष्टकम्
Verse
कनत्कनकताटङ्कविलसन्मुखपङ्कजे । कारुण्यवारिधे त्वं मे सन्ततं मङ्गलं कुरु ॥१॥
Verse
खण्डिताखिलदैतेये खर्वशून्यास्त्रवैभवे । गिरिराजसुते देवि सन्ततं मङ्गलं कुरु ॥२॥
Verse
घनराजिनिभाखर्वसुगन्धिकुटिलालके । चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥३॥
Verse
छत्रीकृतयशोराशे छेदिताखिलपातके । जगदाधारसन्मूर्ते सन्ततं मङ्गलं कुरु ॥४॥
Verse
तत्वमस्यादिलक्ष्यार्थे तापत्रयविभंजिनि । दण्डनीतिस्थिते देवि सन्ततं मङ्गलं कुरु ॥५॥
Verse
धराधरसुते देवि धनधान्यविवर्धनि । दयमानासितापाङ्गे सन्ततं मङ्गलं कुरु ॥६॥
Verse
पञ्चप्रेतासनासीने पञ्चसंख्योपचारिणि । परमानन्दनिलये सन्ततं मङ्गलं कुरु ॥७॥
Verse
अकारादिक्षकारान्तवर्णरूपे महेश्वरि । अविद्यामूलविच्छेत्रि सन्ततं मङ्गलं कुरु ॥८॥
Verse
मंगलाष्टकमेतद्वै यः पठेत् भक्तिसंयुतः । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकं लभेत् ॥९ ॥
