aSTakam
śrī hanumadaṣṭakam
श्री हनुमदष्टकम्
Verse
वैशाखमास कृष्णायां दशमी मन्दवासरे । पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥
Verse
गुरुगौरवपूर्णाय फलापूपप्रियाय च । नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते ॥२॥
Verse
सुवर्चलाकलत्राय चतुर्भुजधराय च उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते ॥३॥
Verse
दिव्यमङ्गलदेहाय पीताम्बरधराय च । तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥
Verse
भक्तरक्षणशीलाय जानकीशोकहारिणे । ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते ॥५॥
Verse
पम्पातीरविहाराय सौमित्रीप्राणदायिने । सृष्टिकारणभूताय मङ्गलं श्री हनूमते ॥६॥
Verse
रंभावनविहाराय सुपद्मातटवासिने । सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते ॥७॥
Verse
पञ्चाननाय भीमाय कालनेमिहराय च । कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत ॥८॥
