Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

mūkāmbikā aṣṭakam

मूकाम्बिका अष्टकम्

Verse

नमस्ते जगद्धात्रि सद्ब्रह्मरूपे नमस्ते हरोपेन्द्रधात्रादिवन्द्ये । नमस्ते प्रपन्नेष्टदानैकदक्षे नमस्ते महालक्ष्मि कोलापुरेशि ॥१॥

Verse

विधिः कृत्तिवासा हरिर्विश्वमेतत् सृजत्यत्तिपातीतियत्तद्प्रसिद्धं कृपावलोकनादेव ते शक्तिरूपे नमस्ते महालक्ष्मि कोलापुरेशि ॥२॥

Verse

त्वया मायया व्याप्तमेतत्समस्तं द्रुतं लीयते देवि कुक्षौ हि विश्वम् । स्थितां बुद्धिरूपेण सर्वत्र जन्तौ नमस्ते महालक्ष्मि कोलापुरेशि ॥३॥

Verse

यया भक्तवर्गा हि लक्ष्यन्त एते त्वयाऽत्र प्रकामं कृपापूर्णदृष्ट्या । अतो गीयसे देवि लक्ष्मीरिति त्वम् नमस्ते महालक्ष्मि कोलापुरेशि ॥४॥

Verse

पुनर्वाक्पटुत्वादिहीना हि मूका नरास्तैर्निकामं खलु प्रार्थ्यसे यत् निजेष्टाप्तये तेन मूकाम्बिका त्वं नमस्ते महालक्ष्मि कोलापुरेशि ॥५॥

Verse

यदद्वैतरूपात्परब्रह्मणस्त्वं समुत्था पुनर्विश्वलीलोद्यमस्था । तदाहुर्जनास्त्वां च गौरी कुमारी नमस्ते महालक्ष्मि कोलापुरेशि ॥६॥

Verse

हरेशादि देहोत्थतेजोमयप्र- स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे । महायोगि कोलर्षि हृत्पद्मगेहे नमस्ते महालक्ष्मि कोलापुरेशि ॥७॥

Verse

नमः शंखचक्राभयाभीष्टहस्ते नमस्तेऽम्बिके गौरि पद्मासनस्थे । नमः स्वर्णवर्णे प्रसन्ने शरण्ये नमस्ते महालक्ष्मि कोलापुरेशि ॥८॥

durgāṣṭakam
kālidāsaviracitam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms