aSTakam
durgāṣṭakam
दुर्गाष्टकम्
Verse
कात्यायनि महामाये खड्गबाणधनुर्धरे । खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥१॥
Verse
वसुदेवसुते काळि वासुदेवसहोदरि । वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥२॥
Verse
योगनिद्रे महानिद्रे योगमाये महेश्वरि । योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥३॥
Verse
शंखचक्रगदापाणेशार्ङ्गज्यायतबाहवे । पीतांबरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥४॥
Verse
ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि । ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥५॥
Verse
वृष्णीनां कुलसंभूते विष्णुनाथसहोदरि । वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥६॥
Verse
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि । सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥७॥
Verse
अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये । अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥८॥
Verse
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः । सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥९॥
