Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

saurāṣṭakam

सौराष्टकम्

Verse

उदयाद्रिमस्तकमहामणिं लस- त्कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥१॥

Verse

तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥२॥

Verse

दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥३॥

Verse

श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥४॥

Verse

शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥५॥

Verse

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं जगदेकदीपमुदयास्तरागिणम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥६॥

Verse

श्रितभक्तवत्सलमशेषकल्मष- क्षयहेतुमक्षयफलप्रदायिनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥७॥

Verse

अहमन्वहं सतुरगक्षताटवी- शतकोटिहालकमहामहीधनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥८॥

Verse

इति सौरमष्टकमहर्मुखे रविं प्रणिपत्य यः पठति भक्तितो नरः । स विमुच्यते सकलरोगकल्मषै- स्सवितुस्समीपमपि सम्यगाप्नुयात् ॥९॥

śrī rāghavendramaṅgalāṣṭakam
durgāṣṭakam

Read next

More on सौराष्टकम्

  • सौराष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms