Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

mahāmāyāṣṭakam

महामायाष्टकम्

Verse

सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतले यामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा । भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौ देवी स्फोटविपाटनैकचतुरा माता महामायिका ॥१॥

Verse

मातेत्याह्वय एव जल्पति महद् वात्सल्यमस्मासु ते कारुण्ये तव शीतलेति यदिदं नामैव साक्षीयते । इत्थं वत्सलतादयानिधिरिति ख्याता त्वमस्मानिमान् मातः कातरतां निर्वाय नितरामानन्दितानातनु ॥२॥

Verse

प्रत्यक्षेतरवैभवैः किमितरैर्देवव्रजैस्तादृशैः निन्दायामपि च स्तुतावपि फलं किंचिन्न ये तन्वते । या निन्दास्तवयोः फलं भगवती दत्सेऽनुरूपं क्षणान् नूनं तादृशवैभवा विजयसे देवि त्वमेका भुवि ॥३॥

Verse

वृत्तान्तं विविधप्रकारमयि ते जल्पन्ति लोके जनाः तत्त्वं नोपलभे तथैव न विधिं जाने त्वदाराधने । तस्मादम्ब कथं पुनः कलयितुं शक्तास्मि ते पूजनं नूनं वच्मि दयानिधेऽवतु जडानस्मान् भवत्यादरात् ॥४॥

Verse

रोदंरोदमुदीर्णबाष्पलहरीक्लिन्नानने ते शिशा- वस्मिन् तप्यति किंचिदत्र करुणादृष्टिं विधत्से न चेत् । पातुं स्फोटगदात् पटुत्वमिव ते कस्यास्ति मातर्वद क्कायं गच्छतु कस्य पश्यतु मुखं का वा गतिर्लभ्यताम् ॥५॥

Verse

धर्म्यानुच्चरतां पथः कलयतां दोषांस्तथा चात्मनः स्वैरं निन्दनमातनोतु सततं द्वेष्येऽपथे तिष्ठतु । एतावत्यपि वत्सके किल शुचं याते मनाक् तत्क्षणं तत्त्राणे जननी प्रयास्यति हि तन्मातस्त्वमस्मानव ॥६॥

Verse

आबालस्थविरं प्रसिद्धमयि ते मातेति यन्नाम तद् गोप्तुं नैव हि शक्यमम्ब तदसौ तादृग्विधा त्वं यदि । अस्मिन् खिद्यति वत्सके न तनुषे मातुर्गुणं चेत्तदा नूनं स्यादपवादपात्रमयि तन्मातस्त्वमस्मानव ॥७॥

Verse

मुक्ताहारमनोहरद्युतियुतां मूर्तिं नरास्तावकीं ये ध्यायन्ति मृणालतन्तुसदृशीं नाभीहृदोरन्तरे । ते घोरज्वरभारजातविषमस्फोटस्फुटद्दुःसह- क्लेदोद्यत्कटुपूतिगन्धमयि नो जानन्त्यमी जात्वपि ॥८॥

Verse

कारुण्याम्बुधिशीतलापदपयोजातद्वयीभावना- जातस्फीतहृदम्बुजामितसुधानिर्यासरूपामिमाम् । ये मर्त्या स्तुतिमादराद् गणपतेर्वक्त्राम्बुजान्निःसृतां विश्वासेन पठन्ति ते न दधते स्फोटव्यथां जातुचित् ॥९॥

Verse

॥ इति श्रीमहामायाष्टकं संपूर्णम् ॥

mahālakṣmyaṣṭakaṃ
bhramarāmbāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms