aSTakam
bhramarāmbāṣṭakam
भ्रमराम्बाष्टकम्
Verse
चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्क चूडामणिम्चारुस्मेरमुखाम् चराचरजगत्सम्रक्षणीम् तत्पदाम् । चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जिताम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥१॥
Verse
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थली म् कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीअटिकाम् । लेलापाङ्गतरङ्गितैराधिकृपासारैर्नतानन्दिनीम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥२॥
Verse
राजन्मत्तमरालमन्दगमनाम् राजीवपत्रेक्षणाम् राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् । राजीवायतमन्दमण्डितकुचाम् राजाधिराजेश्वरीम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥३॥
Verse
षट्ताराम् गणदीपिकाम् शिवसतीम् षड्वैरिवर्गापहाम् षट्चक्रान्तरसम्स्थिताम् वरसुधाम् षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदाम् षड्भावगाम् षोडशीम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥४॥
Verse
श्रिनाथादृतपालितात्रिभुवनाम् श्रिचक्रसम्चारिणीम् ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् । दीनानामातिवेलभाग्यजननीम् दिव्याम्बरालम्कृताम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥५॥
Verse
लावण्याधिकभूषिताङ्गलतिकाम् लाक्षालसद्रागिणीम् सेवायातसमस्तदेववनिताम् सीमन्तभूषान्विता । भावोल्लासवशीकृतप्रियतमाम् भण्डासुरच्छेदिनीम् श्री शैलस्थलवासिनीम् भगवतीम् श्रिमातर.म् भावये ॥६॥
Verse
धन्याम् सोमविभावनीयचरिताम् धाराधरश्यामलाम् मुन्याराधनमेधिनीम् सुमवताम् मुक्तिप्रदानव्रताम् । कन्यापूजनपुप्रसन्नहृदयाम् काञ्चीलसन्मध्यमाम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥७॥
Verse
कर्पूरागरुकुङ्कुमाङ्कितकुचाम् कर्पूरवर्णस्थिताम् कृष्टोत्कृष्टसुकृष्टकर्मदहनाम् कामेश्वरीम् कमिनीम् । कामाक्षीम् कृणारसार्द्रहृदयाम् कल्पान्तरस्थायिनीम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥८॥
Verse
गायत्रीम् गरुडध्वजाम् गगनगाम् गान्धर्वगानप्रिया म् गम्भीराम् ग्जगामिनीम् गिरिसुताम् गन्धाक्षतालम्कृत । मगङ्गागौत्मगर्गसम्नुतपदाम् गम् गौतमीम् गोमतीम् श्रीशैलस्थलवासिनीम् भगवतीम् श्रिमातरम् भावये ॥९॥
Verse
॥ इति श्रिमत्परमह.म्सपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपाद शिष्यस्यश्रिमच्छ.म्करभगवतः कृतौ भ्रमराम्बाष्टकम् सम्पूर्णम् ॥
