Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

veda sUktAni

mantrapuṣpam

मन्त्रपुष्पम्

Verse

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥

Verse

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

Verse

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान्‌ प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान्‌ भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। अ॒ग्निर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑॥

Verse

आ॒यत॑नवान्‌ भवति। आपो॒ वा अ॒ग्नेरा॒यत॑नम्‌। आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यो वा॒योरा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति॥

Verse

आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्॥

Verse

आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम्‌। आ॒यत॑नवान्‌ भवति। यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान्‌ भवति॥

Verse

य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑॥८२॥

Verse

यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यः प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। आपो॒ वै प॒र्जन्य॑स्या॒ऽ॒ऽ॒यत॑नम्। आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑॥

Verse

आ॒यत॑नवान्‌ भवति। सं॒व॒थ्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान्‌ भवति। यः सं॑वथ्स॒रस्या॒ऽ॒ऽ॒यत॑नं॒ वेद॑। आ॒यत॑नवान्‌ भवति। आपो॒ वै सं॑वथ्स॒रस्या॒ऽ॒ऽ॒यत॑नम्‌। आ॒यत॑नवान्‌ भवति। य ए॒वं वेद॑। यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑। प्रत्ये॒व ति॑ष्ठति॥

Verse

रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚। नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे। स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्‌᳚। का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु। कु॒बे॒राय॑ वैश्रव॒णाय॑। म॒हा॒रा॒जाय॒ नमः॑॥

Verse

॥ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

rudrapadapāṭhaḥ
daśaśāntayaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms