veda sUktAni
āśīrvāda-mantrāḥ
आशीर्वाद-मन्त्राः
Verse
क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः। नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः। तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑॥१॥
Verse
सर्व॒स्याप्त्यै᳚। सर्व॑स्य॒ जित्यै᳚। सर्व॑मे॒व तेना᳚ऽऽप्नोति। सर्वं॑ जयति॥२॥
Verse
नवो॑ नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚। भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑॥३॥
Verse
श॒तमा॑नं भवति। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॥४॥
Verse
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त। सौभा᳚ग्यम॒स्यै द॒त्त्वायाथास्तं॒ वि परे॑तन। इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्राꣳ सु॒भगां᳚ कुरु। दशा᳚स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि॥५॥
Verse
श॒ताय॒ स्वाहेत्या॑ह। श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः। आयु॑रे॒व वी॒र्य॑मव॑ रुन्धे। स॒हस्रा॑य॒ स्वाहेत्या॑ह। आयु॒र्वै स॒हस्रम्᳚। आयु॑रे॒वाव॑ रुन्धे। सर्व॑स्मै॒ स्वाहेत्या॑ह। अप॑रिमितमे॒वाव॑ रुन्धे॥६॥
Verse
श्रेयो॒ वसी॑य आ॒यथ्सम्भू॑तं भू॒तम्। चि॒त्रः के॒तुः प्र॒भाना॒भान्थ्स॒म्भान्। ज्योति॑ष्मा॒ꣴ॒स्तेज॑स्वाना॒तप॒ꣴ॒स्तप॑न्नभि॒तपन्॑। रो॒च॒नो रोच॑मानः शोभ॒नः शोभ॑मानः क॒ल्याणः॑॥७॥
