stuti
sūryastutiḥ
सूर्यस्तुतिः
Verse
नमो नमो वरेण्याय वरदायांशुमालिने । ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥१॥
Verse
त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च । नमो धर्माय हंसाय जगज्जननहेतवे ॥२॥
Verse
नरनारीशरीराय नमो मीढुष्टमाय ते । प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥३॥
Verse
नमो व्याहृतिरूपाय त्रिलक्षायाशुगामिने । हर्यश्वाय नमस्तुभ्यं नमो हरितबाहवे ॥४॥
Verse
एकलक्षविलक्षाय बहुलक्षाय दण्डिने । एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ॥५॥
Verse
शक्तित्रयाय शुक्लाय रवये परमेष्ठिने । त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ॥६॥
Verse
त्वमोङ्कारो वषट्कारः स्वधा स्वाहा त्वमेव हि । त्वामृते परमात्मानं न तत् पश्यामि दैवतम् ॥७॥
Verse
॥इति श्री-सौरपुराणान्तर्गता मनुकृता सूर्यस्तुतिः सम्पूर्णा॥
