stotrasangraha
dvādaśāryāsūryastutiḥ
द्वादशार्यासूर्यस्तुतिः
Verse
उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥१॥
Verse
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥२॥
Verse
कर्म-ज्ञान-ख-दशकं मनश्च जीव इति विश्व-सर्गाय । द्वादशधा यो विचरति स द्वादश-मूर्तिरस्तु मोदाय ॥३॥
Verse
त्वं हि यजुर्ऋक् साम त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसस्त्वं भानो परमहंसश्च ॥४॥
Verse
शिवरूपाज्ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥५॥
Verse
त्वचि दोषा दृशि दोषा हृदि दोषा येऽखिलेन्द्रियज-दोषाः । तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु ॥६॥
Verse
धर्मार्थ-काम-मोक्ष-प्रतिरोधानुग्र-ताप-वेग-करान् । बन्दी-कृतेन्द्रिय-गणान् गदान् विखण्डयतु चण्डांशुः ॥७॥
Verse
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥८॥
Verse
यस्य सहस्राभीशोरभीशु-लेशो हिमांशु-बिम्बगतः । भासयति नक्तमखिलं भेदयतु विपद्-गणानरुणः ॥९॥
Verse
तिमिरमिव नेत्र-तिमिरं पटलमिवाशेष-रोग-पटलं नः । काशमिवाधि-निकायं कालपिता रोगयुक्ततां हरतात् ॥१०॥
Verse
वाताश्मरी-गदार्शस्त्वग्-दोष-महोदर-प्रमेहांश्च । ग्रहणी-भगन्दराख्या महतीस्त्वं मे रुजो हंसि ॥११॥
Verse
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥१२॥
Verse
इत्यार्या-द्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम् । पठतां भाग्य-समृद्धिः समस्त-रोग-क्षयश्च स्यात् ॥१३॥
Verse
॥इति श्री-द्वादशार्यासूर्यस्तुतिः सम्पूर्णा॥
