stotrasangraha
sūryāryāstotram
सूर्यार्यास्तोत्रम्
Verse
शुकतुण्डच्छवि-सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥१॥
Verse
यस्योदयास्तसमये सुरमुकुट-निघृष्ट-चरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥२॥
Verse
उदयाचल-तिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बर-चूडामणये दिग्वनिताकर्णपूराय ॥३॥
Verse
जयति जनानन्दकरः करनिकर-निरस्त-तिमिर-सङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥४॥
Verse
प्रतिबोधित-कमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शित-समस्तभुवनः परहितनिरतो रविः सदा जयति ॥५॥
Verse
अपनयतु सकलकलिकृतमलपटलं सप्रतप्तकनकाभः । अरविन्द-वृन्द-विघटन-पटुतरकिरणोत्करः सविता ॥६॥
Verse
उदयाद्रि-चारुचामरहरित हयखुरपरिहितरेणुराग । हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्तेऽस्तु ॥७॥
Verse
उदितवति त्वयि विकसति मुकुलीयति समस्त-मस्तमितबिम्बे । न ह्यन्यस्मिन्दिनकर सकलं कमलायते भुवनम् ॥८॥
Verse
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य । कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥९॥
Verse
आर्याः साम्बपुरे सप्त आकाशात् पतिता भुवि । यस्य कण्ठे गृहे वाऽपि न स लक्ष्म्या वियुज्यते ॥१०॥
Verse
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति ॥११॥
Verse
निधिरेश दरिद्राणां रोगिणां परमौषधम् । सिद्धिः सकलकार्याणां गाथेयं संसृता रवेः ॥१२॥
Verse
॥इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम्॥
