Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stuti

guruparamparā-stutiḥ

गुरुपरम्परा-स्तुतिः

Verse

॥ॐ श्री-गणेशाय नमः॥ ॥ॐ श्री-गुरुभ्यो नमः॥ ॥हरिः ॐ॥

Verse

नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् । श्री-शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यं तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि ॥

Verse

श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥

Verse

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥

Verse

देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम् । बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम् ॥

Verse

नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम् । श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम् ॥

Verse

सत्यनारायणक्षेत्रात् सत्यव्रतमुपागतम् । आश्रये कामकोटीशं सत्यश्रीचन्द्रशेखरम् ॥

Verse

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

Verse

ऐङ्कार-ह्रीङ्कार-रहस्ययुक्त- श्रीङ्कार-गूढार्थ-महाविभूत्या । ओङ्कार-मर्म-प्रतिपादिनीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥

Verse

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥

akrūrakṛta-daśāvatārastutiḥ

Read next

More on गुरुपरम्परा-स्तुतिः

  • गुरुपरम्परा-स्तुतिःStotra
  • श्रीकाञ्चीकामकोटिपीठजगद्गुरुपरम्परास्तवःStotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms