stotrasangraha
yamāṣṭakam
यमाष्टकम्
Verse
हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥१॥
Verse
हरेरुत्कीर्तनं धर्म स्वकुलोद्धारकारणम् । श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥२॥
Verse
दानानां च व्रतानां च सिद्धीनां तपसां परम् । योगानां चैव वेदानां सेवनं कीर्तनं हरेः ॥३॥
Verse
मुक्तत्वममरत्वं च सर्वसिद्धित्वमेव वा । श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥४॥
Verse
भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् । मूढां मामबलां तात वद वेदविदां वर ॥५॥
Verse
शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् । कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥६॥
Verse
इत्युक्त्वा सा सती ब्रह्मन् भक्तिनम्रात्मकन्धरा । तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ॥७॥
Verse
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा । धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥८॥
Verse
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥९॥
Verse
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् । कामानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥१०॥
Verse
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे । नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥११॥
Verse
विश्वे च कलयत्येव सर्वायुश्चापि सन्ततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥१२॥
Verse
तपस्वी वैष्णवो धर्मी यः संयमी विजितेन्द्रियः । जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् ॥१३॥
Verse
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनां क्लेशदो यस्य पुण्यं मित्रं नमाम्यहम् ॥१४॥
Verse
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥१५॥
Verse
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां विष्णुभजनं कर्मपाकमुवाच ह ॥१६॥
Verse
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्वपापात् प्रमुच्यते ॥१७॥
Verse
महापापी यदि पठेन्नित्यं भक्त्या च नारद । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥१८॥
Verse
॥इति श्री-ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री-नारद-नारायण-संवादे श्री-तुलस्योपाख्याने श्री-सावित्रीकृतयमस्तोत्रं सम्पूर्णम्॥
