aSTakam
yamāṣṭakam
यमाष्टकम्
Verse
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा । धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ॥१॥
Verse
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनं इति तं प्रणमाम्यहम् ॥२॥
Verse
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् । कर्मानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥३॥
Verse
भिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे । नमामि तं दण्डधरं यश्शास्ता सर्वजीविनाम् ॥४॥
Verse
विश्वं च कलयत्येव यस्सर्वेषु च सन्ततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥५॥
Verse
तपस्वी ब्रह्मनिष्टो यः सम्यमी सन् जितेन्द्रियः । जीवानां कर्मफलदः तं यमं प्रणमाम्यहम् ॥६॥
Verse
स्वात्मारमश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनां क्लेशदो नित्यं पुण्यमित्रं नमाम्यहम् ॥७॥
Verse
यज्जन्म ब्रह्मणोंशेन ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥८॥
Verse
यमाष्टकमिदं नित्यं प्रातरुत्ताय यः पटेत् । यमात् तस्य भयं नास्ति सर्वपापात् विमुच्यते ॥९॥
