Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vighneśvara prārthanā

विघ्नेश्वर प्रार्थना

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

Verse

अगजानानपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानाम् एकदन्तमुपास्महे ॥

Verse

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

Verse

यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथाऽन्ये । विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय ॥

Verse

गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम् । उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥

Verse

मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥

Verse

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥

Verse

धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः ॥

Verse

षोडशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥

dhyānam
guruparamparā-stutiḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms