stotrasangraha
dhyānam
ध्यानम्
Verse
॥ॐ श्री-गणेशाय नमः॥ ॥ॐ श्री-गुरुभ्यो नमः॥ ॥हरिः ॐ॥
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
Verse
अगजानानपद्मार्कं गजाननमहर्निशम् । अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे ॥
Verse
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
Verse
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥
Verse
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः ॥
Verse
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
Verse
श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
