Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

svadhāstotram

स्वधास्तोत्रम्

Verse

स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥२७॥

Verse

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥२८॥

Verse

श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः । स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः ॥२९॥

Verse

स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम् ॥३०॥

Verse

पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥३१॥

Verse

नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते । आविर्भावतिरोभावौ सृष्टौ च प्रलये तव ॥३२॥

Verse

ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः ॥३३॥

Verse

कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः । इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥३४॥

Verse

तस्थौ च सहसा सद्यः स्वधा साविर्बभूव ह । तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ॥३५॥

Verse

तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात् ॥३६॥

Verse

॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥

avaidhavyaprārthanāstotram
vande mātaram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms