stotrasangraha
avaidhavyaprārthanāstotram
अवैधव्यप्रार्थनास्तोत्रम्
Verse
ओङ्कारपूर्विके देवि वीणापुस्तकधारिणि । वेदमातर्नमस्तुभ्यं अवैधव्यं प्रयच्छ मे ॥
Verse
पतिव्रते महाभागे भर्तुश्च प्रियवादिनि । अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते । पुत्रान् पौत्रांश्च सौख्यं च सौमङ्गल्यं च देहि मे ॥
